________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
विशिष्ट दव नायनस्पार्शनयो रित्याशङ्का निराकरोति । मा हौति । तेष्वपौति । तव मत इत्यादि। परोक्षपि योगिनामपरोपज्ञानोपगमात् अपरोक्षेषु च शाब्दादिपरोक्षज्ञानोपगमात् ॥
न, तयोरविषयाकारत्वात्। विविधो हि ज्ञानधर्मो विषयावच्छेदो जातिभेदश्च । तत्र विषयावच्छेदभेदेन विषयस्य भेदस्थितिरभेदनिराकरणं वा, न तु हितोयेन, तस्य कारणभेदेनैवोपपत्तेः श्रुत्यनुमितिस्मृतिवत् । यथा च विषयभेदेपि कारणभेदादेवापरोक्षजातीमिन्द्रियज ज्ञानं तथा विषयाभेदेपि कारणभेदादेव परोक्षापरोक्षजातीयमिन्द्रियलिङ्गज्ञानं भवत् केन वार्यते। वारणे वा कार्यभेदं प्रति कारणभेदोऽप्रयोजकः स्यात्, तथा चाकस्मिकः स आपद्येत । जातिभेदोऽयं न तृपाधिभेद इति किमच निष्टकं कारणमिति चेत्, अनुभव एव । न हि व्यवसायकाले पारोक्ष्यापारोक्ष्यस्मतित्वानुभूतित्वानि परिस्फुरन्ति, असावनिमानयमग्निमान् सोऽग्निमानिति स्फुरणात्। अनुव्यवमायकाले तु तत्प्रतिभासः, अमुमनुमिनोमि इमं पश्यामि तं स्मरामौत्यलेखात् । कथं तर्हि परोक्षोऽर्थः प्रत्यक्षश्चेति व्यवहारः। यथानुमितो दृष्टः स्मृत इति ।
For Private and Personal Use Only