________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षगामड़वादः ।
३४३
परोक्षा परोक्षरूपतयेति । ननु वस्तुधर्मावेव परोक्षापरोक्षवे, तद्विषयतया प्रतिभामोऽपि कश्चित् परोक्षः कश्चिदपरोक्षं इत्यत पाह। मा हौति। मा परोक्षापरोक्षरूपता। तेम्वपि धर्मभेदेवपि । धर्मपरोक्षताधौना चेत् परोक्षता तत्रापरोक्षजानं न स्यादेवेत्यर्थः । तत्रापौति। परोचे धर्म प्रपरा परोक्षताऽपरोक्षे चापरा परोक्षता चेत्तदाऽनवस्थेत्यर्थः । तथा च परोक्षापरोक्षलक्षणप्रतिभामभेदाविषयभेदः प्रत्यक्षलैङ्गिका दिजानानामावश्यक दति भावः ॥
भगौ ० टी०। ननु प्रत्यक्षलैङ्गिकविकल्पयोः परोक्षत्वापरोक्षत्वरूपप्रतिभामाविषयभेदः स्यादित्याह। न धर्मान्तरेति । ननु परो-- क्षत्वापरोक्षत्वे विषयस्यैव धर्मों, तथा चापरोक्षत्वधर्मविशिष्टं प्रत्यक्षस्य विषयो लैङ्गिकादेस्तु परोक्षत्वधर्मविशिष्ट मिति न ते ज्ञानधर्मावित्याह । मा हौति । वन्मते तेवपि विषयधर्मभेदेषु परोक्षापरोक्षज्ञानोत्पत्तेः, न च परोक्षवादावपि परोक्षत्वाद्यन्तरधर्मखौकारोऽनवस्थितेरित्यर्थः । तथा च परोक्षत्वापरोक्षवयोमिथो विरोधात् प्रत्यक्षलैङ्गिकविकल्पयोः प्रतिनियत विषयतेति भाव. ॥
रघु • टौ । किं विति । पारोक्ष्यापारोक्ष्ये परोक्षापरोक्षविषयकत्वे । न चेकं वस्तु परोक्षमपरोक्षं च सम्भवति, विरोधात्, तथात्वे वा तद्विषयकस्यैकस्य विज्ञानस्य परोक्षापरोक्षोभयरूपतापत्तेः । परोक्षवापरोक्षत्वे च रूपस्पर्णाविव धर्मिणो धर्मभेदौ तविशिष्टश्च धर्मों परोक्षापरोक्षयोविज्ञानयो विषयो रूपस्पर्ण
For Private and Personal Use Only