________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगाभवादः ।
वश्यक मिति प्रतियोग्यनुयोगितयेत्यादेरर्थमाः । तदसत् बौद्धैः नैरात्म्यज्ञानस्यैव मोचहेतुत्वोपगमात् । तदुक्कम् ।
नैरात्म्यदृष्टिं मोक्षस्य हेतुं केचन मन्यते ।
श्रात्मतत्त्वधियं वन्ये न्यायवेदानुसारिण:(१) ॥ इति । न च तत्र नैराग्यदृष्टिपदं शरौरात्मभिन्नत्वज्ञानपरमिति वाच्यम् । निरः संसर्गाभावबोधकतया तादृशज्ञानस्य तदर्थत्वासम्भवात् । न्यायमते च मोकाश्रयमुख्य विशेष्यकतया अणरपि विशेषोऽध्यवसायकर इति न्यायेनात्मविशेष्यकशरीरादिभिन्नत्वज्ञानस्यैव मोक्षहेतुत्वादिति ध्येयम् । नन्वेवमात्मनस्तत्त्वज्ञानाधीनस्य तत्त्वज्ञानस्य मोक्षहेतुतया गौरोऽहं स्थलोऽहमित्यादिज्ञानादपि तादृशान्मोचापत्तिरित्यत आह । तथाहौत्यादि । यथा तत्त्वज्ञानस्यैव मोक्ष हेतुत्वे वादिनामविवादस्तथेत्यर्थः । नैरात्म्यं शरीरस्य नैरात्म्यम् । वस्तुभूतः देहादिभिवः मिथ्याज्ञानादिमान् । नैसर्गिकमात्मज्ञानं स्वाभाविकमात्मज्ञानं गौरोऽहं स्थलोऽहमित्याकारकमनादिदेहाभेदवासनारूपदोषसम्भतमात्मज्ञानमिति यावत् । अतत्त्वज्ञानमेव अयथार्थज्ञानमेव । नैरात्म्यवादिनये असत एवात्मनो भानेनायथार्थत्वात् । प्रात्मनः पारमार्थिकत्वनये च देहाभेदभानेनायथार्थत्वादिति भावः । एकवाक्यता अविप्रतिपत्तिः । न चैव नैरात्म्यवादिनये शरीरनिष्ठनैरात्म्यज्ञानस्य मोक्षजनकस्य कथं तत्त्वज्ञानत्वम् असत एवात्मनः प्रतियोगितया भानादिति वाच्यम् । प्रतियोगितया अात्मनः पूर्वमुपस्थितत्वे ऽपि फलीभूतमोक्षहेतु
(१) न्यायतत्त्वानुसारिणः-पा० २ पु० ।
For Private and Personal Use Only