________________
Shri Mahavir Jain Aradhana Kendra
१०
www.kobatirth.org
आत्मतत्त्वविवेके सटीके
Acharya Shri Kailassagarsuri Gyanmandir
मेव स्पष्टयति । न ततोऽन्यमिति । न तत्त्वज्ञानादन्यं काशीमरणादिकम् । केचित्तु तत्त्वज्ञानमेवेत्येवकारार्थोऽभेदः तथा च तदुपायमिति यथाश्रुतमेव साधु न वा ततोऽन्यमित्यस्यानुवादकत्वमित्याहुः । ननु तथापि भ्रमभिन्नज्ञानरूपस्य तत्त्वज्ञानस्यैव मोक्षहेतुतया श्रात्मन एव तत्त्वं विविच्यते इत्यत्र न किमपि विनिगमकमित्यत श्राह । प्रतियोग्यनुयोगितया चेति । प्रतियोगितया अनुयोगितया वा इत्यर्थः । श्रात्मैव तत्त्वतो ज्ञेयः श्रात्मा तत्त्वत्तो ज्ञेय एव । मोक्षसाधनोभूततत्त्वज्ञानात् प्राक् श्रात्मा श्रात्ममात्रवृत्तिधर्मप्रकारेणावश्यं ज्ञातव्य इति यावत् । यन्मते हि शरीरविशेष्यकं सम्बन्धविशेषावच्छिन्नप्रतियोगिताकात्मतत्त्वविशिष्ट नित्यपदार्थान्तराभाव - वत्त्वज्ञानरूपं शरीरनिष्ठनैरात्म्यतत्त्वज्ञानं मोक्षहेतुस्तन्मते प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानस्य श्रभावप्रत्यक्ष हेतुत्वादेव तत्त्वज्ञानात् प्राक् श्रात्मनस्तादृशज्ञानमावश्यकम् । यन्मते चात्म विशेव्यकं शरीरादिभिन्नत्वज्ञानं मोक्षहेतुः तन्मते ऽनुयोगितावच्छेदकप्रकारकानुयोगिज्ञानस्याभावधी हेतुत्वादेव तत्त्वज्ञानात् प्रागात्मनस्तादृशज्ञानमावश्यकमिति भावः । केचित्तु श्रात्मन: शरीरादिभिन्नत्वस्येव शरीरादेरात्मभिन्नत्वस्यापि ज्ञानं मोचहेतुः विनिगमकाभावात् । कारणतावच्छेदकं चोभयसाधारणं वैजात्यमेव तथा च यत्र शरीरादावात्मभिन्नत्वज्ञानरूपं तत्त्वज्ञानं तत्र प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानविधयैव तत्पूर्वमात्मनस्तादृशज्ञानमावश्यकम् । यत्र चात्मनि शरीरादिभिन्नत्वज्ञानं तचानुयोगितावच्छेदकप्रकारकानुयोगिज्ञानविधयैव तत्पूर्वमात्मनस्तादृशज्ञानमा
For Private and Personal Use Only