________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आत्मतत्त्वविवेके सटौके
नापि न्यायादन्यापोहसिद्धिः तदभावात् । यद्भावाभावसाधारणं तदन्यव्यात्तिनिष्ठं य यञ्चात्यन्तविलक्षणानां सालक्षण्यव्यवहारहेतुस्तदन्यव्यात्तिरूपम् इति न्याया स्त इति चेत् । न। कालात्ययापदेशात् । न हि प्रथमानस्य निष्ठा न्यायसाध्या नाम, प्रवनशरोरं तु चिन्तितमेवेति निष्फलः प्रयासः । यदा चानलोक एव ध्रुवं न्यायस्यानुभवाभामः तदा कैव कथाऽलोके। न हि तस्याप्रतीयमानर्माप किञ्चिदस्ति यन्यायेन सामित्युक्तम् । ___ शङ्क० टौ । गोत्वादौनामन्यव्यावृत्तिरूपत्वे प्रमाणं पाते । यदिति । भावाभावमाधारण्यमस्तिनास्तिप्रत्ययविषयत्वं श्राश्रयनाशानाशयोरप्यनाशित्वं वा। अन्यव्यावृत्तिनिष्ठा खरूपं यस्येत्यर्थः । तथा च गोत्वमन्यव्यावृत्तिस्वरूपं भावाभावमाधारणत्वात् अत्यन्तविलक्षणानां शबलधवलादौनां सालक्षण्यव्यवहारहेतुत्वाहा । मालक्षण्यं समानलक्षणत्वं मादृश्यं वा । अत्रोभयत्र बाधमाह । नेति । प्रत्यक्षतो विधेः स्फुरणस्य व्यवस्थापितत्वादिति भावः । एतदेवाह। न हौति। यदेति । अनौषण्यसाधकमपि न्यायमौ षण्यग्राहि प्रत्यक्षं बाधते चेत्तदा अलोकमाधकं सुतरां तद्विरोधि प्रत्यक्षं बाधिष्यत इत्यर्थः । ननु प्रत्यक्षमपि खविषये न्यायं बाधतां, विषयान्तरे. न्यायः प्रवर्त्तिव्यत एवालोकेपौत्यत आह । न हौति ॥
For Private and Personal Use Only