________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
मात्मतत्त्वविबेके सटौके
भावबोः। न चानबोरन्योन्यापेक्षायामन्योन्याश्रयः घटत्वेन घटे ग्टबमाणे तदिरहानपेक्षणात् तदिरहस्थापि प्रमेवत्वादिना ज्ञाने(१) घठानपेक्षणादिति भावः । न तथाभाव इति । नान्योन्यविरहखभावत्वमित्यर्थः । विवाहादिबपौति । प्रशविषाणादौनां प्रामाणिकत्वे परतन्त्रक्रमयोगपद्यविरहनिरूपणं नान्यथेयर्थः। तथा च प्रमाविषयस्यैव व्यवहारविषयत्वादिति बदपक्रान्तं तमिद्धमिति भावः ॥ __ भगौ• टो। तत् किमिति । तथा च घटः वाभावातमकः स्थादिति भावः । तब दृष्ट्येति । प्रभावस्य प्रामाणिकत्वे घटस्तद्विरहात्मकः । न चाभावम्तव मते प्रामाणिक इत्यर्थः । तस्मादिति । ननु घटतदभावयोः प्रामाणिकत्वे यदि परस्परविरहरूपत्वं तदा परस्परापेचप्रतौतिकतया नैकस्यापि प्रतीतिरन्योन्याश्रयात् । मैवम् अम्ति हि घटल्य घटत्वं खाभावाभावात्मकत्वं न रूपं तत्र यद्यपि स्वाभावाभावत्वेन प्रतीतौ प्रतियोग्यभावनिरूपणापेक्षा तथापि घटत्वेन रूपेण प्रतीतो न तदपेक्षा अन्यथा भावाभावयोरभेदप्रसङ्गः तथा प्रमेयत्वेनाभावप्रतीतौ न प्रतियोगिज्ञानापेक्षा प्रभावत्वेन तत्प्रतीतौ तदपेक्षा प्रभावाभावत्वं तत्र धर्मान्तरं वर्तत इत्यन्ये । शविषाणादिष्वति । यदि शशविषाणादि प्रामाणिकं स्यात् तदा क्रमयोगपद्यव्यतिरेकस्तट्रपत्वं च प्रामाणिक स्थान चैवमित्यर्थः ।
(१) भाने-पा० २ पु०॥
For Private and Personal Use Only