________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नाभवादः ।
२०५
रित्यर्थः । हिशब्दश्चार्थ शङ्कान्तरसमुच्चयार्थः। तईि तदर्थ श्रोतापि व्युत्पाद्यताम् । तथा च तदर्थ प्रयोगः स्यादत प्राह । न च व्यवहारेति । तर्हि व्यवहारादेव परो व्युत्पाद्यतामत उक्तं प्रपञ्चयति। न च गामिति। तदर्थं नयनादियवहितसमयत्वा दित्यर्थ:१) । नद्यपदेशादेव व्युत्पाद्यतां परः इत्यत आह। न चायमिति । तद्गोचर शब्दानामप्यग्टहौतममयत्वा दित्यर्थः । ननु साक्षादपदेशासम्भवेऽप्युपमानमनुमानं वा द्वारीकृत्योपदेशः स्यादत प्राधमाशयनिराकरोति । न च यथेति । प्रवृत्तिनिमित्तस्य गवयत्वस्योपलक्षणं गोसादृश्यं तदतिदेशस्तत्कथनमित्यर्थः । अनुमानमाशय निराकरोति । न चेहेति। अयं प्राणी मधकरशब्दवाच्यः प्रभिन्नकमलोदरे मधुपानकर्तृत्वात् यन्नैवं तन्नैवं यथा घट इत्यर्थः । शविषाणादिपदार्थस्य मधपानादिवदमाधारणक्रियाविरहादिति भावः ॥
भगी. टी.। ननु स्वकीयमानस प्रत्यक्षविषयेनानावच्छेदकेऽलौके सङ्केतग्रहः स्थादित्यत आह । न च सर्व इति । परस्परेति । मया योोऽवगतः स एवानेनापीति संवादाभाव इत्यर्थः । अपरार्थत्वेति । शशविषाणापदं यद्यन्यसाधारणसङ्केतवत्तया ज्ञानविषयो न स्यात् परार्थप्रयोगविषयो न स्यादित्यर्थः । तादृशश्च सङ्केतग्रहो व्यर्थ इत्याह । म हौति । परव्यवहारे परकीयसङ्केतग्रहस्याहेतुत्वादित्यर्थः । तर्हि परोऽपि मङ्केतं ग्राह्यतामित्या
(१) व्यवहाराभावादित्यर्थः- पा० २ पु० ।
For Private and Personal Use Only