________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
आत्मतत्त्वविवेके सटीक
मोचापौत्यर्थः। केचित्त परिपाको यदि महकारिविशेषात् तदा परिपाकद्वारावश्यकत्वात् साक्षादेव वा विकल्प तस्य कारणत्वावासनैवेति पक्षानुपपत्तिरित्यर्थ इत्याहुः। पूर्वन्यायं दुन्द्रियादेविषयाधिपत्यादिकम् । न वादृष्टविशेष एवं महकारी वक्रव्यो नौलादिविकल्पानामपि वासनाममुत्थत्वप्रसङ्गात् । वस्तुतस्त्व सत्ख्यातिप्रमाणमत्त्वे तत्र कारणं कन्यनीयं तदेव तु नाम्ति प्रमाणेनामदंशस्थानुल्लेखेऽसत्ख्यातित्वामिद्धिः उल्लेखे तु प्रमाणस्याप्रमाणताया असतो वा मत्त्वस्य प्रसङ्गादिति ।
न च शशविषाणादिशब्दानामसदर्थैः सह सम्बधावगमोऽपि तथाहि परबुद्धौनामनुल्लेखात् तद्विषयस्थाऽप्यनुल्लेख एव । न चार्थक्रियाविशेषोऽप्यस्ति यतो विषयविशेषमुन्नौय तत्र सङ्केतो गृह्यतां न च सङ्केतयितुरेव वचनात् तदवगतिः तविषयाणां सर्वेषां वचनानामप्रतीतविषयत्वेनागृहीतसमयतया अप्रतिपादकत्वात्।
सङ्क टी. । निराकृतमप्यर्थ विशिष्य निराकरणार्थमाह । न चेति। ननु प्रशविषाणादिपदप्रयोक्तरवण्यं तद्विषयज्ञानमस्ति । अन्यथा प्रयोगानुपपत्तेरिति श्रोतस्तत्र सङ्केतधौः स्यादित्यत पाह। परेति। तबुद्धेः परोक्षतया तद्विषयस्य विशिय्यानवगमादित्यर्थः । ननु प्रयोजकवृद्धोदौरितात् तु शशविषाणादिशब्दात् प्रयोज्यवृद्धस्य व्यवहारं दृष्ट्वा तटस्थस्य व्युत्पत्तिः स्यादत प्राह ।
For Private and Personal Use Only