________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यात्मतत्त्वविवेके सटौके
वा अतिशयपरम्परापरिपाको वा। श्राधे वासनैवेति पक्षानुपपत्तिः द्वितीयेऽपि यद्यर्थान्तरप्रत्यासोक्तदा पूर्ववत् । स्वसन्ततिमाचाधीनत्वे तु वाश्यवादयाघातः नौलादिबुद्धीनामपि वासनापरिपाकादेवोत्पादात्) । वासनापौति पक्षे तु तदन्योऽपि हेतुः कश्चिरक्तव्यः स च विचार्यमाणः पूर्वन्यायं नातिवर्तत इति । ___शङ्क० टी०। वासनाविशेषादित्यनन्तरं नियमः स्यादिति शेषः । सदातनत्वप्रमङ्गादिति । अपेक्षणीयान्तराभावादिति भावः । कदाचिदिति। शशविषाणादिप्रत्यया इति विपरिणामेनानुषङ्गः । अतिशयेति । अतिशयो वासना तत्परम्परायाः। स कश्चित्परिपाको येन शशविषाणादिप्रत्ययोत्पत्तिरित्यर्थः । परिपाकोपि वामनाया यद्यर्थान्तरप्रत्यासत्यधीनस्तदा वासनैवेति पक्षानुपपत्तिरेवेत्याह । यद्यर्थान्तरेति । ननु स्वसन्ततिमात्राधीन एव तत्परिपाको न तु तत्रापि सहकार्यन्तरापेक्षेत्यत पाह। स्वसन्ततीति । एवं मति नौलादिविकल्पः कादाचित्कत्वमपि वासमापरौपाकादेव स्यादित्यर्थः। नौलादिविकल्पकादाचित्कत्वेन त्वया नौलादीनि वाह्यानि स्वीक्रियन्ते। तच्च कादाचित्कत्वं यदि वासनामात्राधौनमेव तदा गतं वाह्यनौलादिस्खौकारव्यसनेनेति भावः । पूर्वन्यायमिति प्रत्यक्षलिङ्गशब्दाभासानां तत्र निराकृतत्वात् । सहकार्यन्तराभावादित्यर्थः।
(१) परिपाकादेरेवोत्यादात्-पा० १ पु० ।
For Private and Personal Use Only