________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८६
Acharya Shri Kailassagarsuri Gyanmandir
raafari aटोके
प्रतौतावितरेतराश्रयत्वम् पदसङ्केतबलेनैव प्रतीतौ स्वार्थपरित्यागात् तथा चानन्विताः पदार्था एवान्वित - तया परिस्फुरन्तौति विपरौतख्यातिरेवानुवर्तते । स्वार्थपरित्यागे तु पुनरयनियमः असामयिकार्थप्रत्यायनात् शब्दस्वाभाव्यात् तु नियमे व्युत्पन्नवदव्युत्पन्नस्यापि तथाविधविकल्पोदयप्रसङ्गादिति ।
:
५. ङ्क ० टी० शशविषाणशब्दादित्युपलक्षणं शशविषाणव्याप्यत्वेन गृहीतादित्यपि द्रष्टव्यम् । उपलचणविधया शब्दाभासमेव तन्त्रं कृत्वा विकल्पयति । स हीति नियामक दूत्यर्थः । सङ्केतग्रहः स्वार्थे पदं नियमयेत् स च नास्तीत्यर्थः । वाक्यार्थनियमोऽपि सङ्केतविषयाप्रतीतेरेव परास्त इति भावः । ननु शशविषाणाशब्दादेव गृहीतसङ्केतस्ततो नियतमर्थं प्रतौयादित्यत श्राह । तत एवेति । नन्वखण्डः शशविषाणपदार्थ: कश्चिन्नास्तु प्रशविषाणशब्द यो(१) गृहीतसङ्केतयोरेव सामर्थ्याद्वाक्यार्थः कचिदमन्नेव भाखतामित्यत श्राह । पदमङ्केतेति । एवं च शशसम्बन्धित्वं विषाणांशे समारोप्यत (२) दूत्यन्यथाख्यातिरेवेत्यर्थः । ननु पदयोः स्वार्थस्फुरणं स्यादेव न त्वेतदस्तीत्यत श्राह । स्वार्थेति । कथमनियम इत्यत श्राह । असामयिकेति । ननु विषयाप्रतीतेः तो मा गृह्यतां शशविषाणादिपदानामीदृश एव स्वभावभेदो (१) पदयो - पा० २ पु० ।
(२) शशसम्बन्धित्वं विषाणे विषाणसम्बन्धित्वं वा शशे समारोप्यत
पा० २५० ।
For Private and Personal Use Only