________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
अात्मतत्त्वविवेके सट के
उमाधारण्य मिति भावः । परोकेपि हेतौ दोषमिममतिदिशति नन्विदमिति । नहि बन्ध्यासुत इति । बन्ध्यासुतनिष्ठभचेतनत्वमित्यर्थः । बन्ध्यासुते यदक्तनत्वं वर्तते तदेव न काष्ठादौ वस्तुनि तथा च तुल्यममाधारण्यमिति भावः ।
भगौ० टौ। तस्मादेवेति । विपक्षादेव न मपक्षादपि । यथा शिंशपा त्वशिंगपात एव व्यावर्त्तते न तु शिशपातोऽपि बन्ध्यामृतस्तु सुतादपि सपक्षाड्यावर्तते इत्यमाधारणतया न गमक इत्यर्थः । अलौकानलोकव्यावृत्तेरेकस्य धर्मम्याभावादिति भावः । ननु पूर्व सतत्वमात्रमेव हेतुकृतं न तु बन्ध्यासुतत्वम् न च तम्य सुताद् देवदत्तादेात्तिः। अत्राहुः सतादपौति भावप्रधानो निर्देश: देवदत्तादे रिति व्यधिकरणे षष्ठी। तथा च देवदतादिनिष्ठस्तत्वादिधर्मश न्यत्वं बन्ध्यासुतम्येत्यर्थः । एवंरूपमेवेति । अमाधारणानेकान्तिकमित्यर्थः। तदेवाह । नहौति । नहि बन्ध्यासुतोऽचेतनादिव काष्ठादेश्चेतनादपि देवदत्तादेन व्यावर्तत इति योजना अतो विपक्षादिव सपक्षाड्यावृत्तिका भवति । काष्ठादिमाधारणस्याचैतन्यस्य प्रामाणिकस्यालो के वृत्त्यभावात् तन्मात्रवृत्त्यरैतन्यं हेतू कर्तव्यम् तत्र चासाधारणत्वमेवेत्यर्थः ॥
रघु • टौ..। असुतत्वेति। निवृत्ते स्तुच्छत्वादिति भावः । स्वरूपेण स्वतः। कृतिर्वचनम्य । जप्तिर्वक्रत्वस्य । अवसे यम् परिचेयम् । अवसायजनकं निर्विकल्पक वा। अत्रावसायः तद्विषयं
For Private and Personal Use Only