________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
आत्मतत्त्वविवेके सटीके
ल्यादित्युक्त्वात्(१) केचित्तु(२) करणकरणविषयावेव प्रसङ्ग विपर्ययौ स्थातामत प्राह । स्तां वेति । करणेनाकरणाभावप्रसञ्जने स्वरूपतोऽकरणेन करणाभावमाधने च प्रकारतोप्यवैशिध्यात् कालभेदेनोभयोपपत्तेमलगैथिल्याचोपसंहर्तमशक्यत्वं यदा यत्कारि तदा न तत् कारीत्यादिप्रसङ्गविपर्यययोश्चापादकामिद्धिमिद्धसाधने चेति भावः । यत्समर्थमिति यत्कारीत्यर्थ इत्याहुः। अत्र करणाकरणविरोधमुपजीव्यप्रवृत्तयोस्तयोः कथं तत्साधकत्वाशङ्कति चिन्तनीयम् ॥
ननु यदसमर्थ प्रथममासीत् तस्य सामर्थ्य पश्चादपि कुत आगतम् प्रथमं समर्थस्य वा पश्चात् कुष गतम्। नैतदेवं तत्तत्सहकारिमतस्तत्तत्कारकत्वं हि सामर्थ्यम् अतहतस्तदन्यवतो वा तदकर्तृत्वमसामर्थम् । इदं चोत्पत्तिकमस्य रूपं ते च सहकारिणः स्वोपसर्पणकारणवशाद् भिन्नकाला इत्यर्थात् कार्याणामपि
(१) वक्ष्यते च तत्र यद्यदा यत्समर्थ तदा तत् करोतीति स्यात् न स्यात् समर्थस्यापि तहकारिविरहस्यैव कार्यकालवृत्तित्वेन यावत्मत्त्वमेव कार्याभावत्वात् । शिलादौ सहकारिसाकल्येऽपि कार्यवैकल्यात् स्वरूपायोग्यत्वप्रयुक्तमेतदिति भावः । यद्यपि परेषां सहकारिरहिते न तदुत्यत्तिनिश्चयविषयः कारणतावच्छेदकरूपेण तत्माजात्यं चासिद्ध रूपान्तरेण त्व तिप्रसङ्गः तथापि तदुत्पत्त्या सदिरहेण करणस्योपपत्तौ मूलशैथिल्यादित्युक्तत्वात्- पा० २ पु.। (२) भगौरथठक्कुरस्येदं मतम् ।
For Private and Personal Use Only