SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ धात्मतत्त्वविवेक सटीक यदि पूर्वद्रव्यानिवृत्तिपक्षस्तदा मूर्तयोः पूर्वापरद्रव्ययोरेकत्र वृत्तिः स्थादित्यर्थः । मूर्तत्वेति । ननु मूर्तयोः समानदेशताविरोधो यदि संयोगेन तदा यदवच्छेदेनालोकसंयोगस्तदवच्छेदेन चक्षुःसंयोगस्य ग्राहकत्वाभ्युपगमविरोध: नापि समवायेन तद्विरोधः एकतन्तुकस्थापि पटम्य दर्शनात् तत्र हि पटारम्भकतन्तुः खावयवेषु वर्तते पटोऽपि तत्रैव एकतन्ववयवानां संयोगस्य तत्रासमवायिकारणत्वात् तस्य कार्यकार्थसमवायनियमात् । अत्राहुः चक्षुरालोकयोश्चालनिन्यायेन संयोगः कठिनयोरेव वा मूर्तयोः समानदेशताविरोधः एकतन्त पटैकत्वं तु तन्तमयोग एवासमवायिकारणं शिरोवच्छेदेन पाणिना शरीरसंयोगावच्छेदे भेदेनांशतन्तुसंयोगस्य विरोधात् यदा पट एव तत्र नोत्पद्यते कारणाबाधात् तादृक्मंयोगमात्रमेव पटप्रतीतिविषयः एवं पूर्वद्रव्यनिवृत्तावेव द्रव्यान्तरस्य परिमाणान्तरस्योत्पत्तिरिति नैकद्रव्ये कालभेदेन परिमाणभेद इत्याह । तथा चेति । किञ्च पूर्वद्रव्यानिवृत्तिपने परिमाणान्तरोत्पादकत्वं संयोगिद्रव्यानुपचये तदुपचये वा। प्राधे संयोगौति अन्ये तदुपचये विति। अममवायिकारणगतस्यैव संख्यापरिमाणादेः परिमाणं प्रत्यममवायिकारणत्वनियमात् परिमाणस्थ स्वममवायिकारणपरिमाणान्तरोत्पत्तिप्रतिबन्धकत्वाञ्चेति भावः। ननु पूर्व कृश इदानीमतिशयेन स्थूल इति प्रत्यभिज्ञानादेतत् स्थादित्यत आह । अत एवेति । उकबाधकबलादेवेत्यर्थः। ननु द्रव्यान्तरारम्भकाभिमतद्रव्यान्तरप्रत्यामत्तेरेव पूर्वपरिमाणनाशः परिमाणान्तरोत्पत्तिश्च स्यात् अवयवगुणस्य वाऽसमवायिकारणतानियमः परिहीयताम For Private and Personal Use Only
SR No.020082
Book TitleAtmatattva Vivek
Original Sutra AuthorN/A
AuthorUdayanacharya, Vindheshwariprasad Dwivedi, Lakshman Shastri Dravida
PublisherAsiatic Society
Publication Year1986
Total Pages966
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy