________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणभङ्गवादः ।
१२१
कदापि तहिरोधी भवेदिति। नासतो विद्यते भावो नाभावो विद्यते सत इत्यायातं न वा विरोधः) ॥
श• टौ । भावाभावेति । परस्परविरहव्याप्यत्वं विरोधिरूपयोः समावत्यपि प्रकृते करणाकरणयोर्न तादृशस्वमित्यर्थः । व्यापारापरेति । अन्यतन्त्रसंयोगादिवञ्चरमसामग्रौनिवेशितसहकारिभावाभावी फलोपधानानुपधाने वा कारणाकारणे परस्परविरहात्मनो एव न तु परसारविरहव्याप्ये इत्यर्थः : अभ्युपगम्याह । अतिरेकेति । यथा घटः स्वावच्छिन्न एव काल्ने स्वाभावं प्रतिचिपति न तु स्वानवछिन्नेऽपि काले तथा करणमपि स्वावच्छिन्न एव काले स्वविरोधिनोऽकरणस्याभावमाक्षिपेत् न तु खानवच्छिन्नेऽपि काले। न हि नेलं स्वाकालेऽपि र तत्वाभावमाक्षिपति ! तथा सत्यामध्यामो घटः पाके मत्यपि रक्तो न स्थादित्यर्थः । दृष्टान्तमुपपादयति। न हौति। प्रतिक्षेप्तुमर्हति प्रतिक्षेपात्मा भवति। दार्शन्तिकमाह। विरोधी ति। उभयत्र विपक्षे दण्डमाह। तथा मतौति। स्वानवच्छिन्नेऽपि काले यदि खाभावं प्रतिक्षिपेत् तदा यदा न स्यात् तदैव स्थादित्यायातं यदा स्वयं न स्यात् तदा तद्विरोध्यपि न सादिति खयमेव स्थादिति विचित्रो विरोध इत्यर्थः । ततः किमित्यत आह । नायत इति । तथा च चणिकत्वमाधने प्रवृत्तस्य तव नित्यत्वमेव भावानां पर्यवसितमिति भावः । न वेति। स्वाभावकाले खविरोधिकाले
_ (१) म चाविरोधः- पर• १ पु० ।
For Private and Personal Use Only