________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षणामवादः ।
१०५
रघु० टी० । अवान्तरजातिभेदं तत्तत्कार्यकुर्वट्रपत्वम् अथाङ्कगधन्यतमत्वेन कार्यता प्रङ्करादयस्तु व्यक्तिस्थानीया इति मतं नैतदपि प्राथमिकबोजानुत्पत्तिप्रसङ्गात् । अङ्कुरत्वावच्छिन्नं प्रत्यपि प्रयोजकत्वन्य वक्तव्यत्वात् अन्यतमत्वेन जन्यत्वे मानाभावाचेति ॥
अत्रापि प्रयोगः। यद्येन रूपेणार्थक्रियासु नोपयुज्यते न तत् तद्रूपम् । यथा बीजं कुञ्जरत्वेन किच्चिदप्यकुर्वन्न कुञ्जरस्वरूपं तथा च शाल्यादयः सामग्रीप्रविष्टा बोजत्वेनार्थक्रियासु नोपयुज्यन्त इति व्यापकानुपलब्धिः प्रसङ्गहेतुः तद्रूपताया अर्थक्रियां प्रति योग्यतया व्याप्तत्वात् अन्यथातिप्रसङ्गात् ॥
शाङ्क" टौ । यद्येनेति । पञ्जात्यवच्छेदेन यस्य किचित्कार्य प्रति न कारणता तत् तन्नातीय च न भवति यथा न बोज कुमरत्वजातिमदित्यर्थः । त्वया च पतितानामपि शाल्यादौना बोजत्वेनाङ्करं प्रति कारणता नाभ्युपगम्यत इति ते बौजजातीया न भवेयुः । यद्यपि गुणानां गुणत्वेन न किञ्चिन् प्रति कारणता न च ते न गुणजातीयाम्तथापि परमताभिप्रायेणायं प्रयोगः । व्यापकेति । तन्नात्यवच्छेदेनार्थ क्रियाकारित्वं तजातीयत्वव्यापकं तम्यानुपलब्धिस्तविपरीतोपलब्धिस्त्वदम्य पगमेनेत्यर्थः । प्रसङ्गमूलभूतां व्याप्तिमाह। तद्रूपताया इति। अन्यथेति । अन्यथा बोजमपि कुञ्जरजातीयं स्यादित्यर्थः ॥
For Private and Personal Use Only