________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः षयाज्ञानेन यदुत्पद्यते तत्तत्सामानाधिकरण्येन स्फुरतीति न नियतं शुक्तिविषयाज्ञानेनोत्पन्नस्य रजतस्य शुक्तिसामनाधिकरण्येनेदं स्जतमिति स्फुरणात् , अहंकारसुखादेरपि चिन्मात्राज्ञानारब्धस्य चित्सामानाधिकरण्येनाहमित्यहं सुखीति स्फुरणात्, आकाशघटादेरपि सत्सामानाधिकरण्येनानुभूयभानत्वात् , क्वचिदपि व्यभिचाराभावात्, न च पर्वते वह्नयभावाज्ञानारब्धस्य वहनेंवह्नयभावसामानाधिकरण्येन स्फुरणाभावाद्वयभिचारः शुक्तौ शुक्तित्वप्रकारकशुक्तिविशेष्यकाज्ञानस्य रजतारम्भकत्ववद्वह्यभावप्रकारकपर्वतविशेष्यकाज्ञानस्यैव पर्वते वहन्यारम्भकत्वात्तत्सामानाधिकरण्येन च पर्वतो वह्निमानिति बढ्नः स्फुरणस्य सर्वसिद्धत्वात् / एतेन भ्रमानुमितौ पर्वते वहनेस्तत्संसर्गस्य वा न जन्म वहन्यभावाज्ञानस्य तद्भुतुत्वे तत्सामानाधिकरण्येन वह्नः स्फुरणप्रसंगात्, पर्वताज्ञानस्च च दे॒तुत्वे हेत्वभावादेव वहन्यनुत्पत्तेरिति पर्वतो वहिनमानित्यन्यथाख्यातिरेव तत्र स्वीकर्तव्येति केषांचिदर्धजरतीयाश्रयणमपास्तं पर्वते प्रतिभासमानस्य देशान्तरसत्त्वे मानाभावात् तत्र वढेमिथ्यात्वानुभवानुरोधेनोक्तदिशा हेतुतयैव सर्वसामंजस्यात्, गौरवेणमिथ्यार्थानङ्गीकारे तेनैव मिथ्याज्ञानानङ्गीकाराद्गुरुमतसाम्राज्यापत्तेः / तस्मादस्ति वह्वेस्तत्संसर्गस्य वा पर्वते उत्पत्तिः, न च पर्वतापरोक्षत्वेन शुक्तिरजतवत्तदपरोक्षत्वापत्तिः पर्वतावच्छिन्नेसाक्षिणि वयुत्पत्तेरभावात् दृश्यमानप्रदेशावच्छेदेन वह्नयभावानुभवात् , प्रदेशविशेषावच्छिन्ने पर्वते. च वह्नयुत्पत्तावपि तदधिष्ठानापरोक्षत्वेन तदपारोक्ष्यात् / अत एवेदंवृत्त्या चैत्रापरोक्षे इदमंशचैतन्ये उत्पन्नं चैत्रस्य रजतं, तयैव तस्मिन्नेव चैतन्ये मैत्रापरोक्षेऽपि न मैत्रस्यापरोक्षं, मैत्रे चैतन्याभेदे नानुत्पन्नत्वादित्येकलोलीभावोऽपि निष्कलंकः / पर्वत-: त्वेन ज्ञानाच्चाधिष्ठानज्ञानसंपत्तिर्वह्निभ्रमे पक्षता तु पर्वतत्वेनापीष्टेति दिए / तत्सिद्धमेतत् यद् यदज्ञाने नोत्पद्यते तत्तत्सामानाधिकरण्ये न स्फुरतीति न जायत्प्रपं चज्ञानारब्धः स्वप्नप्रपञ्चः / नाप्यन्तःकरणावच्छिन्नचैतन्याज्ञानं तदारम्भकमुक्तहेतोरेव अन्तःकरणे च साक्षिवेधे नाज्ञानसंभव इत्यनिर्वचनीयत्वाभावान्न स्वाप्निको रथादिः साक्षिवेद्य इति चेत् , अत्रायं संप्रदायः / रथादिस्तावदध्यस्तो दृश्यत्वात् तदारम्भकं च मूलाज्ञानमेव / चिन्मानिष्ट हि तत्स्वकार्यमाकाशादीश्वरत्वावच्छेदेन जनयति, किंचित्त्वहंकारस्वप्नादि जीवत्वावच्छेदेनापि, उभयमप्याकाशाहंकारादि चित्सामानाधिकरण्येन स्फुरतीति न मूलाज्ञान कार्यत्वे दूषणम् , न च तथात्वे संसारदशायां बाधानापत्तिः ‘सविलासाज्ञाननिवृत्तिरूपबाधाभावादिष्टापत्तेः / दोषनिवृत्त्याऽभावबोधरूपबाधस्य तु स्वप्नारम्भकाज्ञानानिवृत्तावपि तूलाज्ञानानङ्गीकारपक्षे मूलाज्ञानकार्यरजतादाविवानुपपत्यभावात्जाप्रत्प्रपंचाज्ञानान्वयव्यतिरेकानुविधानं तु स्वप्नारंभकनिद्रादोषेणान्यथासिद्धम् / मूलाज्ञानकार्यमपि स्वाप्निकरथादि जीवे उत्पन्नमिति न, तदाकारवृत्त्यपेक्षाऽहंकारादिवत्स्वाध्यस्ततयैव भानात , एवं तमोपि साक्षिवेद्यम् / स्वाप्नादि साक्षात्, तमस्त्वविद्यावृत्तिविषयतयेति परं. विशेषः / '. . For Private and Personal Use Only