________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः [79 सुखमङ्मस्वास न किंचिद्दवेदिषमिति प्रत्ययो न दुःखाभावज्ञानाभावानुमितिरूपो लिंगाभावात्., नाफि दुःखाभावज्ञानाभावस्मरणरूपः सुषुप्तौ प्रतियोगिज्ञानाभावेन तद्रूत्वनुभवासंभवात् , किन्तु सुखाज्ञानस्मरणरूपः स्वीकर्त्तव्य इति तदन्यथानुपपत्या सुखाकाराऽज्ञानाकारा च वृत्तिः सुषुतो, तक्रतत्र व्यवस्थापिता, ताभ्यां चाज्ञानसुखाभ्यां स्मर्यमाणाभ्यां सौषुप्तिकज्ञानाभावदुःखाभावा.. सुमाजम् / न. चाज्ञानस्य न ज्ञानामावलिंगत्वं व्यभिचारादिति वाच्यम् , अवस्थाविशेषविशिष्टस्य तस्य तल्लिंगत्वसंभवात् / स चावस्थाविशेषोऽज्ञानाद्याकारा वृत्तिरेव तेन न ज्ञानाभावादिरूपत्वे तस्थाऽन्योन्याश्रयादिदोषः / / * नन्वेवे विवरणग्रन्थविरोधस्तत्र हि क्वचित्सुषुप्तौ साक्षिाण विद्यमानोऽपि दुःखामाबो नानु भूयते प्रतियोगिज्ञानादित्युक्तं क्वचिच्च प्रकाशसंसर्गः प्रकाशमानतेत्यभिधाना दुःखाभावस्य साक्षिवैधत्वमुक्तमिति चेत् , न, साक्षिगम्येऽपि दुःखाद्यभावे विस्पष्टसाक्षिगम्यता प्रतियोगिज्ञानेनैव प्रतियोगिभूतदुःखस्मरणमन्तरादुःखाभावत्वेन तद् ज्ञानाभावादित्युभयाभिधाने विरोधाभावात् , सुषुप्तौ चं प्रतियोगिज्ञानाभावान दुःखाभावो विस्पष्टसाक्षिगम्यः / न चाविस्पष्टसाक्षिबोधात् स्मृतिसंभवः परैरपि निर्विकल्पस्य स्मृतिजनकत्वानभ्युपगमात् / सुखदुःखादीनां तु विस्पष्टसाक्षिगम्यताऽप्यविद्यावृत्तिमन्तरेणैव तस्याः प्रयोजनाभावात् , दुःखाधभावस्त्वविद्यावृत्तिः स्वीकार्या, एवं ज्ञानाभावेऽपि / अस्तु तर्हि दुःखाभावः प्रमाणगम्यो दुःखानुपलब्ध्यैव दुःखाभावप्रमाणवृत्तिसंभवादिति चेत् , न, ज्ञानाभावेऽनुपलब्धिग्राह्यताया वक्तुमशक्यत्वात् , ज्ञाताया एव तस्याः प्रमितिजनकत्वेनानवस्थाप्रसंगात् , क्वचिद् ज्ञातायाः क्वचिदज्ञातायाश्च हेतुत्वेऽव्यवस्थाप्रसंगादिति ज्ञानाभावस्य साक्षिवेद्यत्वे दुःखाभावस्यापि तथात्वमेव, एकत्र क्लृप्तमन्यत्रापि प्रतिसन्धीयत इति न्यायात् / नन्वेवं स्वाप्निकपदार्थानां कथं साक्षिवेद्यत्वम् इदन्तया प्रतिभासमानतया घटादिवत्तदनुपपत्तेः नापि प्रमाणगम्यत्वं तत्र प्रमाणानुपरमात् / . किंचानिर्वचनीयं साक्षिवेद्यं भवति, न च स्वाप्निकरथानामनिर्वचनीयत्वम् अज्ञानाजन्यत्वात् तथाहि न तावन्मूलाज्ञानं तदारम्भकं संसारदशायां बाधाभावप्रसंगात्, नहि मूलाज्ञानकार्य संसारदशायां बाध्यते, बाध्यते च स्वप्नः / किंच मूलाज्ञानकार्यत्वे तस्य रजतभ्रमे शुक्त्यज्ञानस्येव तत्र जाग्रत्प्रपंचाज्ञानस्यान्वयव्यतिरेकानुविधायित्वं न स्यात्,अस्ति तदिति / अस्तु तर्हि जाग्रत्प्रपंचाज्ञानमेवारम्भकमिति चेत्, न, तथा सति शुक्तौ रजतोत्पत्तिवज्राग्रत्प्रपंचे स्वाप्निकरथाद्युत्पत्तिप्रसंगात् / / न चेष्टांपत्तिस्तत्सामानाधिकरण्येन स्फुरणाभावात्, करणोपरमेण तदप्रतीतेः / न च यद्वि१. 'पंचपादिका नामकरन्यस्य विवरण' इत्याख्या टोका वर्तते / For Private and Personal Use Only