SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः.. ण्येऽपि लौकिकविषयतासंबन्धाभावादेवेश्वरसाक्षात्कारव्यभिचाराभावात् ।तत्र लौकिकविषयताभ्युपगमेऽपि विनश्यदवस्थविषय जन्य लोकिकसाक्षात्कारस्थितिक्षणे व्यभिचारवारणाय लौकिकविषयत्वावच्छिन्नोत्पत्तरेव कार्यतावच्छेदकसम्बन्धत्वेन तत एवेश्वरसाक्षात्कारे व्यभिचाराभावाच्च / कार्यत्वे सति कार्यतावच्छेदकधर्मवत्त्वस्यैव च तज्जन्यत्वव्यवहोरनियामकतया न तत्र विषयजन्वत्वव्यवहार इति दिग् / - एतेन। क्षणिकात्मविशेषगुणत्वेन न योग्यता निर्विकल्पकजीवनयोनियत्नसाधारण्यात् , नाफि तदितस्त्वनिवेशे दोषाभावो निर्विकल्पकान्यत्वजीवनयोनियत्नान्यत्वयोर्विशेषणविशेष्यभावे विनिगमनाविरहात् , क्षणिकत्वस्य चतुर्थक्षणवृत्तिव्वंस प्रतियोगित्वरूपत्वात्, क्षणस्य स्वत्वटितत्वेनाननुगमाञ्च, नापि. ज्ञानेच्छादिवृत्तिर्जातिविशेष एव मनो-योग्यतावच्छेदको ज्ञानत्वादिना सांकर्येण तादृशजात्यमिद्धेः / न च तादृशजातेनिर्विकल्पकवृत्तित्वेऽपि ससम्बन्धिकपदार्थनिरूपणस्य सम्बन्धितावच्छेदकंप्रकारकज्ञानाधीनत्वेन तद्विरहादेव तस्य विषयोपरागेणाज्ञानं तदनुपरागेण च तद्- ज्ञानं ज्ञानभानसामग्रया विषयभानसामग्रोनियतत्वादेव नेति मिश्रमतं युक्तम्, निर्विकल्पकानन्तरव्यवसायस्य सम्बन्धितावच्छेदकघटत्वादिप्रकारकस्य सत्वान्निर्विकल्पकाध्यक्षापतेः / न च प्रत्यक्षे स्वसमयवृत्तित्वेन विषयस्य हेतुत्वान्नोक्तदोष इति वाच्यं, गौरवेण स्वसमयवृत्तित्वे. नाहेतुल्कात, न चानुव्यवसायत्त्य , प्रमात्वनियमाद् घटत्वप्रकारकत्वप्रकारकानुव्यवसायस्य निर्विकल्पकविषयत्वे : भ्रमत्वापातात्तादृशप्रमासामग्रोभूतगुणस्य निर्विकल्पकविरोधित्वादेव न तत्प्रत्यक्षमितिः वाच्यम्, तादृशगुणस्यात्ममनोयोगविशेषस्य वा विरोधित्वमित्यत्र विनिगमनाविरहालादृशप्रतिबध्यप्रतिबन्धकभावकल्पनापेझया तदयोग्यत्वकल्पनाया एवौचित्यात् / नापि भेदविशेषस्तथा प्रतियोग्यननुगमे तदननुगमादखण्डभेदस्य चासिद्धेरिति नानुगतरूपेण योग्यतास्तीति परास्तम्, परप्रकाशेऽनवस्थानात् स्वप्रकाशसिद्धिरित्यपि न युक्तं स्वप्रकाशत्वस्य : परिशेषानुमेयतया तदनुमितिस्वप्रकाशताया अपनुमानान्तरगम्यतयाऽनवस्थासाम्यात्, विषयान्तसंचारादिना प्रतिबन्धेन तद्भगस्याप्युभयत्र साम्यात् / किंचैवं प्रत्यक्षत्वं जातिने स्यादनुमित्यादाव यंशतो. वृत्तित्वात् / न चेष्टापत्तिः स्वविषयत्वे ज्ञानानपेक्षत्वस्यैव प्रत्यक्षलवस्याभ्युपगमादिति वाच्यम्, एकत्र ज्ञानापेझानपेक्षयोर्विरोधात् / न च भ्रमस्य यथाधर्मविषयकत्वावच्छेदेन दोषापेक्षा धर्मिविषयकत्वावच्छेदेन च तदनपेक्षा तथानुमित्यादौ. वह्नयादिविषयतावच्छेदेन ज्ञानापेक्षा स्वविषयतावच्छेदेन च न सेति वयादिविषयतावच्छेदेन परोक्षत्वं स्वविषयतावच्छेदेन च प्रत्यक्षत्वमिति वाच्यम् दोषापेक्षे भ्रमे तदनपेक्षानभ्युपगमात्, धम्यंशे स्वभावादेवाभ्रमत्वात् / For Private and Personal Use Only
SR No.020080
Book TitleAtmakhyati
Original Sutra AuthorN/A
AuthorYashovijay Gani
Publisher
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy