SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 आत्मख्याति:.. अपि. चाहमिदं जानामोत्यत्रेदन्त्वविशिष्टज्ञानवैशिष्टयमात्मनि भासते, न च स्वप्रकाशे तदुपपत्तिः ज्ञानस्य : पूर्वमज्ञातत्वेन प्रकारत्वानुषपत्तेः / न चाभावत्वाभानेऽप्यभावत्वविशिष्टबोधात्तस्तत्र, व्यभिचारवारणाय समानवित्तिवेद्यभिन्नविशेषणज्ञानत्वेन विशिष्टबुद्धौ : हेतुत्वान्न दोष इति वाच्यं यद्धि : येन विना न भासते तत्तत्समानवित्तिवेधं तद्ग्रहसामग्रोनियतमहसार मग्रीकमित्यर्थः / न च ज्ञानाभाने आत्माभानमित्यस्ति तदभानेऽपि 'अहं सुखी' इति भानस्य सर्वसिद्धत्वात् / अपि च प्रत्यक्षविषयतायामिन्द्रियसन्निकर्षस्य नियामकत्वात्कथं तदनाश्रयस्य. स्वस्य प्रत्यक्षत्वं ? कथं वा प्रत्यक्षाजनकस्य प्रत्यक्षविषयत्वं प्रत्यक्षावेषयतायास्तज्जनकत्वव्याप्तत्वात् / न च संस्कारस्मृत्याधुपनीततत्तादौ व्यभिचारः अनागतगोचरसाक्षात्कारजनकप्रत्यासत्यजन्यप्रत्यक्षविषयतायास्तथात्वात्, न च विद्यमानत्वसामान्यलक्षणाजन्यप्रत्यक्षविषये व्यभिचारवारणायानागतगोचरत्वं परित्यज्याजनकगोचरसाक्षात्कारजनकप्रत्यासत्यजन्यप्रत्यक्षविषयतायास्तस्वोक्तो लाधवात्प्रत्यासत्तिजन्यत्वभागमपहायाजनकविषयसाक्षात्कारान्यप्रत्यक्षविषयताया एव प्रत्यक्षजनकत्वनियमकल्पने स्वस्याजनकत्वेन . स्वविषयतायां जनकत्वस्यानियामकत्वेन स्वविषयता न बाधितेति मिश्रकल्पना युक्ता, परमते ज्ञानमात्रस्यैवाजनकविषयत्वेनः यथाश्रुतेऽप्रसिद्धेरजनकवृत्तिविषयतान्यसाक्षात्कारविषयताप्रत्यक्षजनकत्वनैयत्यकल्पने साक्षात्करोमीत्यनुभवसिद्धलौकिकविषयताया एव तथात्वकल्पनौचित्यात् / / - किंच लौकिकप्रत्यक्षविषयत्वेन लाघवादिन्द्रिययोग्यता नेच्छात्वरूपत्वादिना, लौकिकप्रत्यक्षविषयत्वं चोपलक्षणं न तु विशेषणं तेन प्रत्यक्षपूर्व प्रत्यक्षाविषयत्वेऽपि न क्षतिः / अयमों, विषयस्य प्रत्यक्षे कारणता लाधवाद्विषयत्वेनैव, विषयत्वं च लौकिकविषयतासम्बन्धेन साक्षाकारवत्वम्, सम्बन्धेनेत्यन्तं गुरुत्वादिव्यावर्तनाय, साक्षात्कारत्वेन कार्यता, कार्यतावच्छेदकः सम्बन्धो लौकिकविषयता, तेनातीतादिविषय कालौकिकप्रत्यक्षेऽव्यभिचारो, न च तद्वारणाय लौकिकत्वं कार्यतावच्छेदककोटावेव दीयतामिति वाच्यम् लौकिकालौकिकसमूहालम्बने व्यभिचारखारणाय सम्बन्धमध्य एवं तन्निवेशावश्यकत्वात्, कार्यतावच्छेदकेसम्बन्धेन कार्यस्य कारणतावच्छेदकल्वे च बाध काभावः, केवलविशेष्ये विशिष्टान्योन्याभावानभ्युपगमात्प्रतियोग्यवृत्तित्वेन कारणताशरीरेऽन्योन्याभावविशेषणाद्वा. साक्षात्कारविशिष्टस्य सर्वत्र पूर्वमसत्वेऽपि न व्यभिचारः / न च तथापि लौकिकविषयतया ज्ञानवत्वानुभवत्त्वमादाय विनिगमनाविरहः कारणतावच्छेदकस्येव तदवच्छेदकतावच्छेदकस्यापि . व्यापकधर्मत्वेऽन्यथासि।विनिगमकत्वात् / न च साक्षात्कारत्वस्य नित्यवृत्तित्वान्न जन्यतावच्छेदकत्वम् तद्धर्माश्रयीभूतयत्किंचिद्वयक्त्यव्यवहितपूर्वसमयान्यत्वं यद्धर्मावच्छिन्तवन्मिष्ठान्योन्याभावप्रतियोगितानवच्छेदकं तदन्यो धर्म एव तद्धर्मावच्छिन्नं प्रति नियतपूर्ववर्तितावच्छेदक इति नित्यानित्यवृत्तेरपि धर्मस्य जन्यतावच्छेदकत्वसंभवात्मकृते नित्यसाधार For Private and Personal Use Only
SR No.020080
Book TitleAtmakhyati
Original Sutra AuthorN/A
AuthorYashovijay Gani
Publisher
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy