SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः . *अथ व्याप्यवृत्तिरूपस्याप्यवच्छेदकत्वस्वीकारादवच्छेदकतया नीलादिक, प्रत्येव समवायेन नीलादेहेतुत्वम्, न चैव घटेपि तया नीलाधापत्तिः अवयवनीलत्वेन द्रव्य विशिष्टनीलत्वेन वा तद्धेतुत्वात् न, च नीलमात्रपीतमात्रकपालिकाद्वयारधनीलपीतकपाले तदापत्तिः नीलकपालिकावच्छिन्नतदवच्छेदेन तदुत्पत्तेरिष्टत्वात्, अस्तु वा तया नीलादौ नीलेतररूपादेरेवं विरोधित्वमिति चेत्, न, नीलादौ नीलोतररूपादिप्रतिबन्धकतयैवोत्पत्तौ तत्र नीलादिहेतुतायां मानाभावेन नानारूपवदवयवारब्धे चित्ररूपस्यैव प्रामाणिकत्वात् व्याप्यवृत्तेरवच्छेदकायोगात्, नीलेतरादौ नीलादेः प्रतिबन्धकत्वेऽविनिगमाच्च / ., यदि च स्वाश्रयसम्बन्धेन नीलं प्रति स्वव्यापकसमवायेन नीलरूपं हेतुरुपेयते, नीलपीताधारब्धस्थले च स्वाश्रयसम्बन्धेन नीलरूपस्य पीतकपालेऽपि संभवेन व्यभिचारात् उक्तसम्बधेन हेत्वभावादेव न तत्र नीलोत्पत्तिरिति विभाव्यते, तदा नीलं प्रति नोलेतररूपादेः प्रतिबन्धकत्वं चित्ररूपवादिना न कल्पनीयमित्यतिलाघवम्, एवं सामानाधिकरण्यसम्बन्धावच्छिन्नप्रतियोगिताको नीलेतराभावः समानावच्छेदकत्वप्रत्यासत्या नीलहेतु रित्यपि निरस्तं सामानाधिकरण्यस्य व्याप्यवृत्तित्वेन तत्सम्बन्धावच्छिन्नप्रतियोगिताकनीलेतराभावासत्त्वाच्चेति बहवः संप्रदायं समादधते / केचित्तु विजातीयचित्रं प्रति स्वविजातीयत्वस्वसंवलितत्वोभयसम्बन्धेन रूपविशिष्ट रूपत्वेनैक हेतुत्वम् स्ववैजात्यं च चित्रत्वातिरिक्तं यत्स्ववृत्ति तद्भिन्नधर्मसमवायित्वम् स्वसंवलितत्वं च स्वसमकायिसमधेताव्यसमवायिवृत्तित्वम्, न च स्वत्वाननुगमः सम्बन्धमध्ये तत्प्रवेशादित्याहुम। परे तु नीलपीतोभयाभावपीतरक्तोभयाभावादीनां * स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नप्रतियोगिताकानां समवायावच्छिन्नप्रतियोगिताकानां च विजातीयविजातीयपाकोभयाभावादीनां यावत्त्वावच्छिन्नप्रतियोगिताक एकोऽभावचित्रत्वावच्छिन्न प्रति हेतुरित्याहुः / रूपत्वेनैव चित्रं प्रति हेतुत्वं कार्यसहभावेन चित्रेतराभावस्य हेतुत्वेनानतिप्रसंगादित्यन्ये / Today ".......... .. . .. ... . .... .eruiryarving , un ** अयं नयोपदेशेऽपि। For Private and Personal Use Only
SR No.020080
Book TitleAtmakhyati
Original Sutra AuthorN/A
AuthorYashovijay Gani
Publisher
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy