SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मख्यातिः च स्वसमवायिसमवेतत्वसम्बन्धेन नीलादीनां हेतुत्वम्, व्याप्यवृत्तिनीलस्थलेऽव्याप्यवृत्तित्ववारणाय चावच्छेदकतया नीलादौ त्वसमवायिसमवेतद्रव्यसमवायित्वसम्बन्धेननीलेतररूपादीनां हेतुत्वमित्यष्टादशकार्यकारणभावाः, चित्ररूपेऽप्येतावन्त एव, चित्ररूपे नीलेतररूपादिषटकस्य, नीलादौ नीलादिषट्कस्य हेतुत्वानीलेतरादिषट्कस्य नीलादौ प्रतिबन्धकत्वाच्चेत्याधिक्याभावात्, वस्तुतोऽवच्छेदकतया नीलादावुक्तसम्बन्धेन नोलेतररूपविशिष्टनीलत्वादिनैव हेतुत्वम्, न च नीलेतरत्वाद्यवच्छिन्नं प्रति नील विशिष्टनीलेतरत्वादिना हेतुत्वेन विनिगमकाभावः, नीलत्वापेक्षया नीलेतरत्वस्य गुरुत्वात्, इत्थं चाभिनिष्कर्षे ऽस्माकं द्वादशैव कार्यकारणभावा इति लाघवादित्याहुः, चित्ररूपस्वीकारपक्षेऽपि नोलादौ नीलेतरादिप्रतिबन्धकत्वेनैव शुक्लावयवमात्रारब्धे नीलाद्यनुत्पत्तिनिर्वाहात् नीलादौ नीलादिहेतुत्वाकल्पनात् कार्यकारणभावसंख्यासाम्यात्, अव्याप्यवृत्तिनानारूपतत्प्रागभावध्वंसादिकल्पने परम्परस्यैव गौरवात् / / किंचाव्याप्यवृत्तिरूपपक्षेऽवच्छेदकतासम्बन्धेन रूपे उत्पन्ने पुनस्तेनैव सम्बन्धेनावयवे रूपोत्पत्तिवारणायाऽवच्छेदकतासम्बधेन रूपं प्रत्यवच्छेदकतासम्बन्धेन रूप प्रतिबन्धक कल्पनीयमिति गौरवम् / / न चावयविनि समवायेनोत्पद्यमानमेवावयवेऽवच्छेदकतयोत्पत्तुमर्हतीत्यवयविनि रूपस्य प्रतिबन्धकस्य सत्त्वेन रूपसामान्याभावादेव नावयवेऽवच्छेदकतया तदा रूपोत्पत्त्यापत्तिरिति वाच्यम्, एवं हवयविनिष्ठरूपाभावोऽवच्छेदकतासम्बन्धेन रूपं प्रति हेतुर्वाच्यः. तथा च नानारूपवत्कपालारब्धघटस्य नीलरूपादेनीलकपालिकावच्छेदेनानुत्पत्तिप्रसंगात्तदवयविाने कपाले रूपसत्त्वात् / अपि च नीलपीतवत्यग्निसंयोगाकपालनीलनाशात्तदवच्छेदेन रक्तं न स्यात् समवायेन रूपं प्रति तेन रूपस्य प्रतिबन्धकत्वात्, तदवच्छिन्नरूपे तदवच्छिन्नरूपस्य प्रतिबन्धकत्वकल्पने चातिगौरवम् / ___अथावच्छिन्ननीलादौ नीलाभावादिषट्कमवयवगतमवयविगतं च हेतू रक्तनीलारब्धे रक्तनाशकपाकेन व्याप्यवृत्तिनीलोत्पत्तौ चावयविनि नीलाभावाभावान्नावच्छिन्ननी लोत्पत्तिः, केवलनीले पाकैन क्वचिद्रतोत्पत्तौ च प्राक्तननीलनाशादेवावच्छिन्ननीलोत्पत्तिरिति चेत्, न, नीलपीतश्वेताघरब्धे श्वताद्यवच्छेदेन, नीलजनकपाके सति प्राक्तननीलनाशेन तत्तदवच्छिन्ननानानीलकल्पनापेक्षयैकचित्रकल्पनाया एव लघुत्वात् / 15. / For Private and Personal Use Only
SR No.020080
Book TitleAtmakhyati
Original Sutra AuthorN/A
AuthorYashovijay Gani
Publisher
Publication Year
Total Pages48
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy