________________
Shri Mahavir Jain Aradhana Kendra
अठ्ठाइ
॥ १ ॥
画卐回卐回回卐回卐回卐回5回卐画卐回卐回卐回卐
www.kobatirth.org
॥ श्री जिनाय नमः ॥
॥ श्री अष्टाहिकव्याख्यानम् ॥
( कर्ता - श्रीक्षमा कल्याणकजी )
1015
Acharya Shri Kailassagarsuri Gyanmandir
शांतीशं शांतिकर्तारं । नत्वा स्मृत्वा च मानसे । अष्टाहिकाया व्याख्यानं । लिख्यते गद्यबंधतः ॥ १ ॥ इह च सकलदुष्कर्मवारिणि चिमलधर्मकर्मकारिणि इह परत्र च कृतप्रभूतशर्माणि श्रीपर्युषणादिपर्वणि समागते सति सकलसुरासुरेंद्राः संभूय श्रीनंदीश्वरनामनि अष्टमद्वीपे धर्ममहिमानं कर्तुं गच्छंति; तत्र तावन्नंदीश्वरद्वीपस्य मध्यभागे चतुर्दिक्षु चत्वारोंजनगिरयः संति, अंजनवर्णाः पर्वता इत्यर्थः तेषां प्रत्येकं चतुर्दिक्षु चतस्रो वाप्यः संति, तासां वापीनां मध्यभागेषु दधिमुखपर्वताः संति, दधिवर्णाः श्वेता इत्यर्थः पुनर्द्वयोर्वाप्योरंतरेषु रतिकरपर्वतौ वर्त्तेते, रक्तवर्णा इत्यर्थः एवं चैकैकांजनगिरिः, समंताच्चत्वारो दधिमुखा अष्टौ च रतिकराः संमीलने द्वादश त्रयोदशमश्च स्वयमंजनगिरिः, इत्थं चतुर्दिक्षु चतुर्णामंजनगिरीणां सपरिकराणां मीलने जाता द्विपंचाशद्गिरयः ते च पृथग्नामसंख्यया चत्वारोंजनगिरयः ४ षोडश दधिमुखाः १६ द्वात्रिंशद्रतिकरपर्वताः ३२
For Private and Personal Use Only
द्वौ द्वौ
संति,
茴卐回卐回卐回5回卐回卐回卐回卐回卐回卐回5回
व्याख्यान