________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्यान
+ PhDEFEEDEDGE090
व्रतधारिणः श्रावकान् स्वगृहे भोजयामास. पूर्व भरतेन काकिणीरत्नरेखाभिः श्रावका अकिताः, सूर्ययशसा तु सौवगोपवीतेन तेन तेंचिताश्चक्रिरे. तस्य राज्ञ उदारचरिता बहवः कुमारा आसन. यथा ऋषभस्वामिन ईश्वाकुवंशो ववृते, तथा सूर्ययशसः सूर्यवंशोऽभवत्. सोऽप्येकदा पितृवत्स्वरत्नदर्पणे पश्यन् संसारासारतां धारयन् केवलज्ञानं प्राप्य बहन् भव्यान् प्रतिबोध्य मुक्ति प्राप ॥ इति निजनियमदृढपालने सूर्ययशोपकथा ॥ भव्यात्मभिरष्टाहिकापर्वणीत्थं धर्मकर्माणि विधाय तत्पराधनीयं, येनेह परत्र च सर्वेष्टसिद्धिः॥
संवद्वयोमरसाष्टरात्रिप्रमिते मासे शुचौ शोभने । पक्षे प्रोज्ज्वलतायुते सुविहिते सम्यद्वितीयातिथौ ॥ पूज्यश्रीजिनहर्षसूरिंगणभृद्राज्ये मुदाष्टाहिका-व्याख्यानं सुगम हितं सुविहितं श्रीजेसलाद्रौ पुरे ॥१॥ श्रीमंतो गुणशालिनः समभवन् प्रीत्यादिमाः सागरा-स्तच्छिष्याऽमृतधर्मवाचकवरा आसन् स्वधर्मादराः॥ तच्छिष्यर्जिनराजराजिचरणांभोजप्रसक्तैः क्षमा-कल्याणाभिधपाठकैः सुमनसां श्रद्धावतां प्रीतये ॥२॥ युग्मं ।। मुनेरुदयरंगस्या-ग्रहादयाख्यानमादरात् ॥ इदं व्यधायि प्राचीनं । पद्यबंधं विलोक्य तत् ॥ ३॥
णायष्टाह्निकव्याख्यानं समाप्तम् ॥
॥ २१॥
For Private and Personal Use Only