________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अट्ठाइ
504
:05मनमनफ़
सापि ईषद्विहस्य पुनस्तमुवाच, हे नाथ ! अन्यदन्यदिति च त्वद्वचो दूरतो याति, यदीदं त्वं नांगीकर्ता, तर्हि त्वं॥
व्याख्यान स्वयं स्वपुत्रस्य शिरश्छित्वा सद्यो मह्यं देहि ? अथ राजा विमृश्य वदतिस्म, हे सुलोचने ! मत्सुतो मत्तोऽभवत् , तस्मान्मम शिरस्तव करतलस्थमस्तु. इत्युक्त्वा नृपः करेण खड्गं गृहीत्वा यावत् स्वशिरश्छेदार्थमुद्यतो भतति, तावदेव सा तस्य खड्गधारा वबंध, न पुनस्तस्य सत्वस्य. ततो राजा खड्गधाराबंधनाद्विलक्षः सन् कंठनालविडंबकं नवं नवं खगं गृहीतवान, यदासौ भूपतिर्मनागपि सत्त्वान्न चचाल तदा ते स्त्रियो स्वकीय रूपं प्रादुःकृत्याऽत्यादराजयजयेत्यूचतुः, पुनश्च
जय त्वं वृषभस्वामि-कुलसागरचंद्रमाः॥ जय सत्ववतां धुर्यः । जय चक्रीशनंदनः॥१॥ अहो! तव धैर्य ! ऊ अहो! ते मनसो निश्चयः! यत्वस्य विनाशेऽपि मनाक् खत्रतं न त्यक्तवान्. देवेंद्रः खःसभायां देवानां पुरस्तवातुलं
सत्त्वं विशेषतः प्रशशंस, हे राजन् ! आवाभ्यां अश्रद्धानाभ्यां स्वर्गादागत्य स्वनिश्चयात्त्वं क्षोभयितुमारब्धः, परं त्वां क्षोभयितुं कोऽपि न समर्थः. हे जगत्प्रभुकुलावतंस! हे वीर! त्वयैव इयं पृथ्वी रत्नसूरिति सत्यं नाम बिभात. इत्थं तयोः स्तुवत्योस्तत्र देवेंद्र उपागमत्. जयशब्दमुच्चरन् पुष्पवृष्टिं च कृतवान्, तदा प्रतिज्ञाभ्रष्टा उर्वशी इंद्रेण सोपहासं निरीक्षिता सती तत्पुरतो नृपगुणान् जगौ. इंद्रोऽपि तस्मै वरमुकुटकुंडलांगदहारान् दत्वा च ताभ्यां सह स्वर्ग ययौ. सूर्ययशा अपि सत्यप्रतिज्ञः प्रमुदितः सन् सन्नीत्या पृथ्वीं पालयतिम. अथ स राजा भरतेशवत् पृथ्वीं जिनगृहमंडितां कुर्वन् श्रीसंघयात्रया जन्म पवित्रयन् श्रीयुगादिजिनचरणवत् नित्यं चतुर्दश्यष्टमीपर्व आराधयामास. तथा 5
%3D
२०
For Private and Personal Use Only