________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अट्ठाइ तदा श्रीमत्या उक्तं हे तात ! मया तद्दिने गर्जितभीतया तच्चरणे विलग्नयाभिज्ञानं दृष्टमस्ति, तस्मादतापरं तथा कुरु व्याख्यान
। यथा प्रतिदिनं यात आयातश्च सर्वानपि साधून पश्यामि, श्रेष्टिनोक्तं इह पत्तने ये केऽपि महर्षयः समायांति ॥ ११ ॥
तेभ्यस्त्वं प्रत्यहं स्वयं भिक्षां देहि, येन सर्वेषां दर्शनं स्यात्, ततः सापि प्रत्यहं तथैव चक्रे, तल्लक्षणं दीक्षमाणा मच मुनीनां चरणानवंदत. अथ द्वादशे वर्षे स महामुनिर्दिग्मूढः सन् तत्रागतस्तल्लक्षणदर्शनात्तयोपलक्षितश्च, तदा ॐ श्रीमती तमृषिमुवाच हे नाथ! तत्र देवकुले तदा यो मया वृतः स मम वरस्त्वमेवासि, मद्भाग्यैरेवाधुनागतोऽसि,
अथ मां मुग्धां त्यक्त्वा क्व यास्यसि, यदा त्वं दृष्टनष्टोऽभूत् तद्दिनादारभ्य मम हा दुःखेन कालोऽगमत् , तस्मात्प्रसादं विधाय मामंगीकुरु, एवं स्थितेऽपि मामवमन्यसे तर्हि अग्निप्रवेश कृत्वा तुभ्यं स्त्रीहत्यापातकं दास्ये, तदान्यैरपि तत्पित्रादिभिर्महाजनैर्विवाहाय अभ्यर्थितः स साधुव्रतारंभनिषेधकं तद्देवीवचनं सस्मार, ततस्तद्रोग्यकर्मोदयादृणमोक्षमिव कर्तु तां श्रीमती पर्यणैषीत्. अथ श्रीमत्या सह चिर भोगान् भुजानस्य तस्य क्रमेण पुत्रः संजातः, स च क्रमेण वर्द्धमानो राजशुक इव वक्तुमुल्लसज्जीहोऽभवत् , तावति पुत्रे सजाते सति स आर्द्रकुमारो
हर्षितः सन् श्रीमती प्रोवाच, अतः परं ते पुत्रः सहायोऽस्तु, अहं प्रव्रजामि, तदा बुद्धिनिधिः श्रीमती सुतं प्रत्यवसरंक व ज्ञापयितुं तूलपूणिकासहितं तर्कुमादाय समुपाविशत्, तदा तूलकर्त्तनक्रियां कुर्वाणां तां विलोक्य स बालकः पप्रच्छ, महे अंब ! एतत्पामरलोकोचितं कर्म किं प्रारब्धं ? सा प्रोचे हे पुत्र! तव पिता त्वां मां च त्यक्त्वा प्रव्रज्यार्थ गंतुमनो ॥ ११ ॥
वर्तते, गते चास्मिन् पतिहीनाया मे तर्कुरेव शरणं, तदा बालको बाल्यान्मन्मनाक्षरैरुवाच अहं बध्ध्वा धारयिष्यामि,
HID0005मनमान
For Private and Personal Use Only