________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।
॥ १३ ॥
www.kobatirth.org
प्रतिबन्धकत्वकल्पने स्पार्शनेच्छाभावचाक्षुपेच्छयोर्विशेषणविशेष्यभावे विनिगमनाविरहेण प्रतिबध्यप्रतिबन्धकभावद्वयं प्रतिबध्यतावच्छेदकशरीरगौरवं चेति दूषणप्रसङ्गः, सम्प्रदायिमते स्पार्शनेच्छाभावचाक्षुषेच्छयोर्विभिन्नप्रतिबन्धकतावच्छेदककोटौ निवेशेनैकत्र निवेशप्रयुक्तशरीरगौवाधिक्याभावादिति शङ्कनीयम्, सम्प्रदायिमतेऽपि स्पार्शनेच्छाविशिष्टस्पार्शनसामग्रीकाले चाक्षुषेच्छाभावदशायां चाक्षुषापत्तिवारणायावश्यं चाक्षुषं प्रति चाक्षुषेच्छाविरहविशिष्टस्पार्शनेच्छाविशिष्टस्पार्शनसामग्र्याः प्रतिबन्धकत्वं कल्पनीयमिति प्रतिबध्यप्रतिबन्धकभावद्वयस्य प्रतिबन्धकतावच्छेदकशरीरगौरवस्य च तौल्यात् । न च तथापि चाक्षुषसामग्र्या आलोकसंयोगादिघटितत्वेन स्पार्शनसामग्रीमपेक्ष्य गुरुत्वादेकदेशिमते प्रतिबन्धकतावच्छेदकशरीरगौरवम्, नव्यमते आलोकासंयुक्तादिव्यावृत्तविजातीयचक्षुः संयोगस्यैव, अस्मन्मते तु योग्यताविशेषस्यैव चाक्षुषसामग्रीत्वात्तत्रालोकसंयोगानिवेशनेनोक्तगौरवाभावात्, स्वविशिष्टचाक्षुषेच्छाविशिष्टचाक्षुषसामग्रीसम्बन्धेन स्पार्शनेछाभावस्य प्रतिबन्धकत्वे दोषाभावः, सम्बन्धगौरवस्यादोषत्वादित्यपरे । यत्तु त्वमनोयोगस्य जन्यज्ञानत्वावच्छिन्नं प्रति हेतुत्वाच्चाक्षुषसामग्रीदशायां स्पार्शनसामग्र्यास्तन्मात्रापगमेन विघटयितुमशक्यत्वादवश्यं स्पार्शनं प्रति चाक्षुषसामग्र्याः प्रतिबन्धकत्वं कल्पनीयमिति, तन्न, सुषुप्तौ ज्ञानाभावस्य विजातीयमनः संयोगस्थानीयोपयोगाभावेनैवोपपत्तौ जन्यज्ञानसामान्ये त्वङ्मनोयोगस्य हेतुत्वे मानाभावात्, अन्यथा स्पार्शनं प्रति चाक्षुषरासनादिनानासामग्रीप्रतिबन्धकत्वकल्पने गौरवापातात्, समवायेन जन्यज्ञानत्वावच्छिन्नं प्रति त्वमनोयोगस्य स्वाश्रयीभूतमनः प्रतियोगिकविजातीयसंयोगवच्त्वरूपपरम्परासम्बन्धेन कारणत्वकल्पनापेक्षया समवायसम्बन्धेनोपयोगहेतुत्व एवं लाघवाच्च, एतेन द्रव्यस्पार्शनेऽवच्छेदकतासम्बन्धेन त्वमनोयोगस्य हेतुत्वात्
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥ १३ ॥