________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
दशायां स्पार्शनापत्तिः, अत्र चाक्षुषसामग्र्यां चाक्षुषेच्छावैशिष्ट्यं च स्वीयचाक्षुषनिष्ठविशेष्यतानिरूपितविषयतासम्बन्धावच्छिन्नप्रकारताश्रयीभूतत्वसंयोगाद्यभाववत्समवेतत्वस्वसमवायिनिरूपितोपदर्शितपरम्परासम्बन्धावच्छिन्नवृत्तित्वोभयसम्बन्धेन निवेशनीयम् , नातः समानविषये घटज्ञानं जायतां घटस्पार्शनं च जायतामितीच्छासत्त्वे घटचाक्षुषसामग्रीकाले तत्स्पार्शनानुपपत्तिः, न चैकपुरुषस्य चाक्षुषेच्छासत्त्वे पुरुषान्तरस्य चाक्षुषसामग्रीकाले स्पार्शनेच्छाविशिष्टस्पार्शनसामग्रीदशायां स्पार्शनानुपपत्तिः, अत्रापि प्रतिवन्धकतावच्छेदकः सम्बन्ध उपदर्शितपरम्परारूपः, प्रतिबध्यतावच्छेदकश्च समवायः, नातः पुरुषभेदेन प्रतिवध्यप्रतिबन्धकभाववृद्धिः। एवं घटादिस्पार्शनेच्छाविशिष्टघटादिस्पार्शनसामग्रीकाले घटादिचाक्षुषेच्छाभावदशायां घटादिचाक्षुषवारणाय घटादिचाक्षुषं प्रति घटादिचाक्षुषेच्छाविरहविशिष्टस्पार्शनेच्छाविशिष्टस्पार्शनसामय्या अपि प्रतिबन्धकत्वं बोध्यम् , अत्रापि समानभिन्नविषयभेदेन विषयनिवेशानिवेशाभ्यां द्वौ द्वौ प्रतिबध्यप्रतिबन्धकमावौ कल्पनीयावित्यादि निरस्तम् , क्षयोपशमानुसारेणाशुवाहिन्युपयोगद्वयनियतचाक्षुषसामग्र्यादिवलवत्त्वकल्पनाया अयोगाद् भावप्रत्यासत्तिरूपेच्छाभेदैरिव द्रव्यक्षेत्रकालप्रत्यासत्तिभेदैरपि क्वचित्कदाचित्कस्यचित्प्रधानोपसर्जनभावसम्भवात् तावद्विशेषणानां चासर्वज्ञेदुर्जेयत्वेन यथास्थितबलवत्त्वापरिज्ञानादुभयसमाजाभिमतस्थले च पश्यामीत्यस्येव स्पृशामीत्यस्याप्यनुभवस्य सर्वसिद्धत्वात् , अत एव चाक्षुषस्पार्शनसामग्रीद्वयस्थले स्पार्शनमेव जायते, न चाक्षुषं, चाक्षुषसामय्या आलोकसंयोगादिघटिताया गुरुत्वाल्लघुभृतायास्त्वक्संयोगादिघटितस्पार्शनसामग्र्या एव प्रतिबन्धकत्वौचित्यादिति नैयायिकैकदेशिनः । न चैवं चाक्षुषेच्छाविशिष्टचाक्षुषसामग्रीकाले स्पार्शनेच्छाभावदशायां स्पार्शनापत्तिवारणाय स्पार्शनेच्छाविरहविशिष्टचाक्षुषेच्छाविशिष्टचाक्षुषसामग्र्याः
For Private And Personal Use Only