________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
+
अष्टसहस्री विवरणम्
परिच्छेदः प्रथमः॥
॥१२॥
घटादिग्पार्शनविषयकेच्छाविरहविशिष्टपटादिचाक्षुषसामग्रीत्वेन च प्रतिवन्धकत्वं कल्पनीयम् , चाक्षुषसामग्री तूद्भूतरूपादिविशिष्टविजातीयसंयोगरूपा, वैशिष्ट्यं च स्वाश्रयसमवेतत्वेन, चाक्षुषसामग्र्यां स्वसमवायिसमवेतविजातीयसंयोगवन्मन:संयुक्तचक्षुर्वृत्तित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्य स्पार्शनेच्छाभावस्य च वैशिष्ट्यं विशेषणताविशेषेण ग्राह्यमतो नानुपपत्तिः, यद्वा सामान्यतः स्पार्शनत्वावच्छिन्नं प्रति स्वीयस्पार्शननिष्ठविशेष्यतानिरूपितविषयितासम्बन्धावच्छिन्नप्रकारताश्रयसमवेततत्वरूपपरम्परासम्बन्धावच्छिन्नप्रतियोगिताकस्पार्शनत्वप्रकारकेच्छाविरहविशिष्टचाक्षुषसामग्रीत्वेनैकम् , अपरं च स्पार्शनं |
प्रति चाक्षुषसामग्रीविशिष्टोपदर्शितपरम्परासम्बन्धावच्छिन्नप्रतियोगिताकस्पार्शनविषयकेच्छाभावत्वेन प्रतिबन्धकत्वं कल्पM नीयम् , अतो न विषयभेदेन प्रतिवध्यप्रतिबन्धकभावबाहुल्यम् । एवं चाक्षुषेच्छाविशिष्टचाक्षुषसामग्रीकाले स्पार्शनेच्छादशायां
पार्शनवारणाय घटादिस्पार्शनं प्रति घटादिचाक्षुषत्वप्रकारकेच्छाविशिष्टचाक्षुषसामग्र्याः प्रतिबन्धकत्वमेकम् , अपरं च घटादि& पार्शनं प्रति घटादिचाक्षुषविषयकेच्छाविशिष्टचाक्षुषसामग्रीत्वेन कल्पनीयम् , अथवा तत्रापि विषयमनिवेश्य स्पार्शनत्वावः
च्छिन्नं प्रति स्वीयचाक्षुषनिष्ठविशेष्यतानिरूपितविषयतासम्बन्धावच्छिन्नप्रकारताश्रयसमवेतत्वस्वसमवायिनिरूपितोपदर्शित४ा स्वाश्रयीभूतचक्षुस्संयुक्तत्वादिघटितपरम्परासम्बन्धावच्छिन्नवृत्तित्वोभयसम्बन्धेन चाक्षुषत्वप्रकारकेच्छाविशिष्टचाक्षुषसामग्री
प्रतिबन्धिका, प्रतिवध्यतावच्छेदकः सम्बन्धः समवायः, प्रतिबन्धकतावच्छेदकः स्वाश्रयीभूतचक्षुःसंयुक्तमनःप्रतियोगिकविजातीयसंयोगवत्वम् , नातो विषयपुरुषभेदेन प्रतिबध्यप्रतिबन्धकभावबाहुल्यम् । एवं स्पार्शनत्वावच्छिन्नं प्रति चाक्षुषविषयकेच्छाविशिष्टचाक्षुषसामग्र्या अपि प्रतिबन्धकता बोध्या, नातो भिन्नविषये चाक्षुषविषयकेच्छाविशिष्टचाक्षुषसामग्रीकाले स्पार्शनेच्छा
CHAKRAKAR
॥१२॥
For Private And Personal Use Only