SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Lain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ४ तेच्छाभावविशिष्टसिद्ध्यभावघटितायाः प्रतिबन्धकत्वमावश्यकम् , अन्यथा सिद्धिकाले परामर्शादीतरानुमितिकारणसमूहसत्त्वे वडिप्रत्यक्षानुत्पत्त्यापत्तेः, तथा चाननुगतेच्छाभावकूटादीनां विशेषणविशेष्यभावाननुगमप्रयुक्तं गौरवं दुरुद्धरम् । सम्प्रदायमते तु नैतत् , प्रत्यक्षेच्छाविरहाविशिष्टानुमित्साविशिष्टानुमितिसामग्रीप्रतिबन्धकतावच्छेदककोटौ सिध्यभावनिवेशे प्रयोजनाभावात् , उक्तसामग्रीदशायां सिद्धिकालेऽनुमितेरेवोत्पत्त्या प्रत्यक्षानुदयेन व्यभिचाराभावादिति चेत् , न, यादृशयादृशप्रत्यक्षेच्छासत्त्वे यादृशयादृशसिद्धिसत्त्वे च न तथाविधानुमितिस्तावदन्यतमत्वावच्छिन्नप्रतियोगिताकस्याभावस्याखण्डस्यैव निवेशादेकैकपरामर्शादनुमितिद्वयाभ्युपगमेन सिद्धेरप्रतिबन्धकत्वाद्वा, अस्माकं तु तदानुमानोपयोगाविरामादेव न प्रत्यक्षम् , उपयोगक्रमे तु देशकालादिनियन्त्रितक्षयोपशमक्रम एव नियामक इति किमानेडितेन । एतेन समाने विषये भिन्ने विषये वा स्पार्शनसामग्रीदशायां चाक्षुषसामग्रीसच्चे चाक्षुषस्यैवोत्पत्तेः स्पार्शनत्वावच्छिन्नं प्रति स्पार्शनेच्छाविरहविशिष्टचाक्षुषसामग्र्याः प्रतिबन्धकत्वं कल्पनीयम्, तत्र न सामान्यतस्तत्त्वेन प्रतिबन्धकत्वम् , घटचाक्षुषसामग्रीकाले घटस्पार्शनेच्छासत्त्वे तत्सामग्र्यां घटस्पार्शनेच्छायां चासत्यां घटस्पार्शनापत्तेः, नापि घटादिस्पार्शनं प्रति घटादिस्पर्शनविषयकेच्छाविरहविशिष्टचाक्षुषसामग्रीत्वेन प्रतिवन्धकत्वम्, घटचाक्षुषसामग्रीकाले घटस्पार्शनसामग्रीदशायां घटज्ञानं जायतामितीच्छासत्त्वे घटस्पार्शनापत्तेः, न चेष्टापत्तिः, स्वभावतो बलवती यस्य सामग्री तद्विषयकेच्छासत्त्वे तस्यैवोत्पादनियमात् , नापि तथाविधस्पार्शनं प्रति तथाविधस्पार्शनत्वप्रकारकेच्छाविरहविशिष्टचाक्षुषसामग्रीत्वेन, पटचाक्षुषसामग्रीकाले घटस्पार्शनसामग्रीसत्वे घटज्ञानं जायतामितीच्छायां घटस्पार्शनानुपपत्तेः, किन्तु घटादिस्पार्शनं प्रति घटादिस्पार्शनत्वप्रकारकेच्छाविरहविशिष्टघटादिचाक्षुषसामग्रीत्वेन For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy