SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir सामग्रीद्वयसमाजेऽतीन्द्रियत्वेन फलबलकल्प्यस्य तस्यावच्छेदकतासम्बन्धेन विषयेऽनभ्युपगमादेवोपपत्तौ न स्पार्शने | चाक्षुपसामग्रीमतिबन्धकत्वमित्यप्यपास्तम् , विषयतासम्बन्धेन प्रत्यक्षं प्रत्यवच्छेदकतासम्बधेनेन्द्रियमनोयोगस्य हेतुत्वे प्रत्यक्षं प्रति विषयेन्द्रियसन्निकर्षस्य हेतुत्वोच्छेदापनेविषयसन्निकर्षविरहदशायां विषयेऽवच्छेदकतयेन्द्रियमनोयोगाभावाभ्युपगमेनैवोपपः, तस्मात् सामान्यतोविशेषतश्चोपयोगहेतुतयैव सर्वसामञ्जस्यमिति मन्तव्यम् । अत्र श्लोकाः " भिन्नप्रमाणावरणाः, क्षयोपशमसम्भवाः । उपयोगाः फलं कुर्यु-भिन्नमेव प्रमातृषु ॥१॥ ईहापोहादिरूपाणां, तेषां भिन्नतया फले । न सामग्रीद्वयावेशा-देकैकप्रतिवन्धनम् ॥२॥ तद्देशकालावच्छिन्न कार्येऽन्यापादनं तु न । तथा भव्यतयाऽऽक्षेपात् , कारणानां नियोगतः॥३॥ कल्प्ये फलबलादेवो–पयोगस्योचिते बले । भिन्नेऽर्थे चासमावेशे, न दोषः कश्चिदीक्ष्यते ॥ ४ ॥” इति ॥ तीर्थकृत्समयानां च परस्परविरोधतः। सर्वेषामाप्तता नास्ति कश्चिदेव भवेद्गुरुः॥३॥ इति, भगवतो महत्त्वे साध्ये तीर्थकरत्वं साधनं कुतः प्रमाणात् सिद्धम् ? न तावदध्यक्षात् , तस्य तदविषयत्वात्साध्यवत् । नाप्यनुमानात्, तदविनाभावि लिङ्गाभावात् । समयात्सिद्धमिति चेत्, पूर्ववदागमाश्रयत्वादगमकत्वमस्य, व्यभिचारश्च, न हि तीर्थकरत्वमाप्ततां साधयति-शक्रादिष्वसम्भवि, सुगतादौ दर्शनात् । यथैव हि भगवति तीर्थकरत्वसमयोस्ति तथा सुगतादिष्वपि । सुगतस्तीर्थकरः, कपिलस्तीर्थकर इत्यादिसमयाः सन्तीति सर्वे महान्तः स्तुत्याः स्युः। न च सर्वे सर्वदर्शिनः परस्परविरुद्धसमयाभिधायिनः । ACCOMPRACHANA For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy