SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org विपक्षासम्भविनं प्रतीयात् ? न तावत्प्रत्यक्षादनुमानाद्वा, तस्य तदविषयत्वात् । नाप्यागमादसिद्धप्रामाण्यात्तत्प्रतिपत्तिरतिप्रसङ्गात् । प्रमाणतः सिद्धप्रामाण्यादागमात्तत्प्रतिपत्तौ ततः साध्यप्रतिपत्तिरेवास्तु परम्परापरिश्रमपरिहारश्चैवं प्रतिपत्तुः स्यात् । ततः सूक्तं सर्वथा नातो हेतोस्त्वमसि नो महांस्तस्यागमाश्रयत्वादिति ॥ १ ॥ तर्ह्यन्तरङ्गबहिरङ्गविग्रहादिमहोदयेनान्यजनातिशायिना सत्येन स्तोतव्योहं महानिति भगवत्पर्यनुयोगे सतीव प्राहुः ।- (अथ अष्टसहस्री विवरणम् ) श्रेयं इति अलङ्करणे इत्यत्रान्वयि, श्रीवर्द्धमानस्येति अत्र श्रियाऽऽर्हन्त्यलक्षणया वर्द्धमानस्येतिव्युत्पत्त्या श्रीवर्द्धमान|पदेन तीर्थकरसामान्योपस्थितिसम्भवेऽपि ' योगाद्रूटिर्बलवतीति ' न्यायाद् व्यक्तिविशेष एव विश्रामे निश्चयनयेनैकभक्तौ सकलभक्तिसिद्धावपि व्यवहारनयमते विषयबहुत्व एव तदतिशयसिद्धेस्तत्र तत्र व्यवस्थापितत्वात् सकलजिनस्तुतेरेवात्र तात्पविषयत्वात् तात्पर्यविषयान्वयानुपपत्त्याऽस्य पदस्य तीर्थकरसमुदाये लक्षणेत्यभिप्रेत्य विवृणोति - परमैजिनेश्वरसमुदयस्येति, तेन समुदयस्य पदार्थतया वाक्यार्थतया वा कथं लाभ इत्याशङ्काया नावकाशः । शाद्वबोधे लक्ष्यस्य भानं च लक्ष्यतावच्छेदकरूपेण शक्यतावच्छेदकरूपेण वेति पुनरन्यदेतत्, जिनेश्वरसमुदयसमन्तभद्रयोः स्तुत्यस्तोत्रोः स्तवनमावृत्त्या विशेषणविशेष्यभावकामचारेण तदमलवाचश्च तद्विशेषणतयेति बोध्यम् । स्वातन्त्र्येण तदभिवन्दनविवक्षायां तु, अनिन्द्यवाचमित्यत्रानिन्द्या चासौ वाक् चानिन्द्यवाक् तामिति कर्मधारयः, समन्तेत्यादि, समन्ततो भद्रं यस्यां तादृशी या मुत्तद्भूतस्तत्स्वरूपो यो बोधस्तस्य महिमा यस्याः सकाशात् सा For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy