SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersun Gyanmandir परिच्छेदः प्रथमः॥ अष्टसहस्री विवरणम् ॥ ॥२॥ प्रयुक्तमनसः, कस्माद् देवागमादिविभूतितोऽहं महान्नाभिष्टुत इति स्फुटं पृष्टा इव स्वामिसमन्तभद्राचार्याः प्राहुः॥ अथ श्री समन्तभद्राचार्यविरचिता आप्तमिमांसा ॥ देवागमनभोयानचामरादिविभूतयः। मायाविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ॥ १॥ इति देवागमादीनामादिशब्देन प्रत्येकमभिसम्बन्धनाद्देवागमादयो नभोयानादयश्चामरादयश्च विभूतयः परिगृह्यन्ते, ताश्च भगवतीव मायाविष्वपि मष्करिप्रभृतिषु दृश्यन्ते इति तद्वत्तया भगवन्नोस्माकं परीक्षाप्रधानानां महान्न स्तुत्योसि ॥ (भाष्यम्-आज्ञाप्रधाना हि त्रिदशादिकं परमेष्ठिन: परमात्मचिन्हें प्रतिपद्यरन् नास्मदादयस्ताहशो मायाविष्वपि भावादित्यागमाश्रयः॥१॥) अयं स्तवः । श्रेयोमार्गस्य प्रणेता भगवान् स्तुत्यो महान् देवागमनभोयानचामरादिविभूतिमत्त्वाद्यन्यथानुपपत्तेरिति हेतोरप्यागमाश्रयत्वात् । तस्य च प्रतिवादिनः प्रमाणत्वेनासिद्धेः, तदागमप्रामाण्यवादिनामपि विपक्षवृत्तितया गमकत्वायोगात् । तदागमादेव हेतोर्विपक्षवृत्तित्वप्रसिद्धेः। परमार्थपथप्रस्थायियथोदितविभूतिमत्त्वस्य हेतोर्मायोपदर्शिततद्विभूतिमद्भिर्मायाविभिन व्यभिचारः, सत्यधूमवत्त्वादेः पावकादौ साध्ये खमोपलब्धधूमादिमता देशादिनानैकान्तिकत्वप्रसङ्गात् सर्वानुमानोच्छेदात् इति चेत् । तर्हि मा भूदस्य हेतोाभचारः, पारमार्थिक्यः पुरन्दरभेरीनिनादादिकृतप्रतिघातागोचरचारिण्यो यथोदितविभूतयस्तीर्थकरे भगवति त्वयि तादृश्यो मायाविष्वपि नेत्यतस्त्वं महानस्माकमसीति व्याख्यानादन्थविरोधाभावादिति कश्चित्, सोपि कुतः प्रमाणात्मकृतहेतुं +ESC+ESCCCCCCCCCX For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy