SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org लङ्करणे, तदाश्रयत्वादन्यर्तमासम्भवे तदघटनात् । तद्वृत्तिकारैरपि तत एवोद्दीपीकृतेत्यादिना तत्संस्तवनविधानात् । ( भाष्यम् - देवागमेत्यादिमङ्गलपुरस्सरस्तवविषयपरमाप्तगुणातिशयपरीक्षामुपक्षिपतैव स्वयं श्रद्धागुणज्ञतालक्षणं प्रयोजनमाक्षिप्तं लक्ष्यते । तदन्यतरापायेऽर्थस्यानुपपत्तेः । शास्त्रन्यायानुसारितया तथैवोपन्यासात् ) ॥ अकलङ्कदेवीयं भाष्यम् । इत्यनेन ग्रन्थकारस्य श्रद्धागुणज्ञतालक्षणे प्रयोजने शास्त्रारम्भस्तवविषयाप्त गुणातिशयपरिक्षोपक्षेपस्य साधनत्वसमर्थनात् । शास्त्रावताररचितस्तुतिगोचराप्तमीमांसितमिदं शास्त्रं देवागमाभिधानमिति निर्णयः । मङ्गलपुरस्सरस्तवो हि शास्त्रावताररचितस्तुतिरुच्यते । मङ्गलं पुरस्सरमस्येति मङ्गलपुरस्सरः शास्त्रावतारकालस्तत्र रचितः स्तवो मङ्गलपुरस्सरस्तवः इति व्याख्यानात् । तद्विषयो यः परमाप्तस्तद्गुणातिशयपरीक्षा तद्विषयाप्तमीमांसितमेवोक्तम् । तदेवं निश्श्रेयसशास्त्रस्यादौ तन्निबन्धनतया मङ्गलार्थतया च मुनिभिः संस्तुतेन निरतिशयगुणेन भगवताप्तेन श्रेयोमार्ग - मात्महितमिच्छतां सम्यग्मिथ्योपदेशार्थविशेषप्रतिपत्त्यर्थमाप्तमीमांसां विदधानाः, श्रद्धागुणज्ञताभ्यां * अकलङ्कदेवीयभाष्यगतं मङ्गलं उद्दीपीकृतधर्मतीर्थमचलज्योतिर्ज्वलत्केवला-लोकालोकितलोकालोकमखिलैरिन्द्रादिभिर्वन्दितम् । वन्दित्वा परमार्हतां समुदयं गां सप्तभङ्गीविधि, स्याद्वादामृतगर्भिणीं प्रतिहतैकान्तान्धकारोदयाम् ॥ १ ॥ तीर्थं सर्वपदार्थतत्त्वविषयस्याद्वादपुण्योदधे-भैव्यानामकलङ्कभावकृतये प्राभाविकाले कलौ ॥ येनाचार्यसमन्तभद्रयतिना तस्मै नमः सन्ततं कृत्वा वित्रियते स्तवो भगवतां देवागमस्तत्कृतिः ॥ २ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy