________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥ १ ॥
www.kobatirth.org
अम्भोराशेः प्रवेशे प्रविततसरितां सन्ति मार्गा इवोच्चैः
स्याद्वादस्यानुयोगे कति कति न पृथक् सम्प्रदाया बुधानाम् । शक्यः खोत्प्रेक्षितार्थैररुचिविषयतां तत्र नैकोऽपि नेतुं
जेतुं दुर्वादिवृन्दं जिनसमयविदः किं न सर्वे सहायाः ॥ ४ ॥ समन्तभद्रोऽत्र हि कारिकाणां कर्त्ताऽनुवक्ता त्वकलङ्कदेवः । व्याख्याति भाष्यानुगमेन विद्या- नन्दोऽप्यमन्दोद्यमतः स्फुटं ताः ॥ ५ ॥
॥ श्रीविद्यानन्दविरचिताऽष्टसहस्री ||
श्रीवर्द्धमानमभिवन्द्य समन्तभद्रमुद्भूतबोधमहिमानमनिन्द्यवाचम् । शास्त्रावताररचितस्तुतिगोचराप्तमीमांसितं कृतिरलङ्कियते मयास्य ॥ १ ॥
श्रेयः श्रीवर्द्धमानस्य परमेजिनेश्वरसमुदयस्य समन्तभद्रस्य तदमलैवाचश्च संस्तवनमाप्तमीमांसितस्या
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः
प्रथमः ॥
॥ १ ॥