SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेदः प्रथमः॥ तथा तामिति तद्विशेषणम् , अनुच्छिद्यमानानन्दमयनिरुपप्लवज्ञानधारास्वभावपरमब्रह्मप्रापिकामित्यर्थः । __श्रीवर्द्धमानमिति च श्रिया भक्तिसमृद्ध्या वर्द्धमानं यथा स्यात्तथेति क्रियाविशेषणमिति व्याख्येयम् , नन्वलङ्कार्यालङ्करणयोर्व्याख्येयव्याख्यानरूपतयैकानुबन्धचतुष्टयवत्वेन प्रकृतालङ्करणग्रन्थस्यालङ्कार्यवदनुबन्धसिद्धिसम्पादनद्वारा स्तुत्यस्तोवस्तुतिनिमित्तकत्वेऽपि तत्समाप्तिहेतोः श्रेयसस्तत्रयापेक्षायां किं प्रयोजकमत आह-तदाश्रयत्वादिति, तस्येति शेषः। तस्य श्रेयसः संस्तवनस्योक्तत्रयविषयकसमूहालम्बनरूपत्वादित्यर्थः । तदेकतरविषयकमेव श्रेयः किं नाद्रियतेऽत आह 'तदन्यतमेत्यादि' प्रचितस्यास्यैव बलवत्तरविघ्नवारणेऽपि कारणत्वादित्यभिधानादलवत्तरविघ्नवारणाय प्रचितश्रेयस एवात्र चिकीर्षितत्वात् तस्य चान्यतरापायेऽसम्भवात् श्रेयसः प्रचितत्वसिद्ध्यर्थमुक्तत्रयविषयत्वाश्रयणमावश्यकमिति भावः। ननु ग्रन्थादौ ग्रन्थसमाप्त्यर्थं मङ्गलमाचरन्ति प्रेक्षावन्तः, प्रकृते सम्पूर्णो ग्रन्थ एव स्तुतिरूपत्वान्मङ्गलमिति किं मङ्गलान्तरोपादानेन ? अन्यथा तत्रापि मङ्गलान्तरोपादानेऽनवस्थाप्रसङ्गादिति चेत्, अत्र वदन्ति, अन्योऽपि ग्रन्थः स्वाध्यायरूपत्वान्मङ्गलमेव मङ्गलबुद्धिपरिग्रहार्थ च पृथग्मङ्गालोपादानम् , अतादृशधीविषयस्य साध्वादेर्मङ्गलस्याप्यमङ्गलत्वादिति, इत्थं चाश्रयतया समाप्तौ स्वैकवाक्यत्वबुद्धिविषयतासम्बन्धेन मङ्गलस्य हेतुत्वमित्युक्तं भवति, तच्च प्रकृते व्याख्याने पृथग्मङ्गलस्य व्याख्येये चादिवाक्यस्यैवेति न काचिदनुपपत्तिः, मङ्गलेऽमङ्गलत्वबुद्धिस्तु स्वसमानाधिकरणदुरितजननी न तु स्वसमाप्तिप्रतिबन्धकदुरितजननीति विचारणीयं सूक्ष्मदृशा, उक्तहेतुहेतुमद्भाव एव च व्यधिकरणसमाप्तिप्रसङ्गवारणं कृतं भवति, समाप्तावन्वयव्यतिरेकाभ्यां मङ्गलस्य व्यभिचारस्तु स्वान्यूनसङ्ख्यविघ्नस्थलीयसमाप्तित्वादेः कार्यतावच्छेदकस्योक्त्या ॥३॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy