________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
प्रतीत्यभावात् सामान्यविशेषात्मनो जात्यन्तरस्य प्रत्यक्षादौ प्रतिभासनाच । न चैवं दृश्यलक्षणेपु सङ्केतकरणाशक्तावपि विकलये सामान्ये कचिदशक्यसङ्केतत्वं येनाशक्यसमयत्वादनभिलाप्यमर्थरूपं भवेत् , कथंचिच्छक्यसङ्केतत्वसिद्धेः । स्यान्मतं ' सङ्केतितार्थस्य शब्दविषयस्य व्यवहारकालेननुगमनाद्विषयिणः शब्दस्य न तद्वाचकत्वमन्यथातिप्रसङ्गात्' इति, तदेतद्विषयविषयिणोभिन्नकालत्वं प्रत्यक्षेपि समान, शब्दविकल्पकालवत् प्रत्यक्षप्रतिभासकालेपि विषयस्यासंभवात् , संभवे वा क्षणिकत्वाविरोधाद्वैद्यवेदकयोः समानसमयत्वप्रसाद । अथ भिन्नकालत्वेऽपि विषयात्प्रत्यक्षस्याविपरीतप्रतिपत्तिः, अन्यत्रापि सास्त्येव । नहि शब्दादर्थ परिच्छेद प्रवर्तमानो विपरीतं प्रतिपद्यते प्रत्यक्षादिव प्रतिपत्ता, येन दर्शने एवाविपरीतप्रतिपत्तिर्भवति न पुनः शाब्देपीऽति बुद्ध्यामहे । कचिद्विकल्पे विपरीतप्रतिपत्तिमुपलभ्य सर्वत्र विपरीतप्रतिपत्तिकल्पनायां कचिद्दर्शनेऽपि विपरीतप्रतिपत्तिं समीक्ष्य सर्वत्र तत्कल्पनास्तु, विशेषाभावात् । दर्शनविकल्पयोः परमार्थकतानत्वाभावे न किंचित्सिद्धम् । दृष्टस्यानिर्णयाददृष्टकल्पनाददृष्टनिर्णयस्य प्रधानादिविकल्पाविशेषात् कुतो दर्शनस्य कल्पनापोढस्यापि परमार्थंकतानत्वम् ? । न हि दृष्टे स्वलक्षणे निर्णयः संभवति, तस्य तदविषयत्वात । अदृष्टे तु सामान्यलक्षणे निर्णयः प्रवर्तमानो न प्रधानादिविकल्पाद्विशिष्यते । इति सकलप्रमाणाभावात्प्रमेयाभावसिद्धेरवक्तव्यतैकान्तबादिनां नैरात्म्यमेवायातं सर्वथाप्यशक्यसमयत्वेनाप्यशक्यत्वपक्षस्यासंभवादनवबोधपक्षवदभावस्यैव निर्व्याजत्वसिद्धेः ततः क्षणक्षयकान्तपक्षे कतनाशाकृताभ्यागमप्रसङ्गः । स चोपहासास्पदमेव स्यात् ॥ ६० ॥ तथा हि ।
मौनव्रतादीनामशक्यत्वेऽन्तर्भावादिति वचनजनककरणवीर्याविषयत्वस्यैवाशक्यपदार्थत्वात् सिद्धैर्वक्तुमशक्यत्वस्येत्थमेवोपपत्तेरिति भावः । उक्तमेव हेतुना विशदीकरोति तेषामिति तथा वचने यथा तात्पर्य नियामकमनुगतत्वान्नतु
८८
For Private And Personal Use Only