SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir अष्टसहस्री विवरणम् ॥ ॥२७॥ RDCROCROSASRCHES तदुत्थापकानि प्रकरणादीन्यननुगतत्वात् , तथाऽवचनेऽशक्यत्वमेव नियामकमनुगतत्यानतु तदुत्थापकानि मौनव्रतादीन्यननु- परिच्छेदः |गतत्वादिति भावः । न चैवमिति एवं मौनव्रतादीनामशक्यत्वेऽन्तर्भावे, अन्तर्जल्पसम्भवादिति बहिः स्पष्टोच्चाराभा- पावतीयः ।। वेऽप्यन्तर्वचनजनककरणवीर्यसत्त्वादन्यथाऽन्तर्जल्पाप्रत्यक्षापत्तेमध्यमावेखोंर्भदानापत्तेश्चेति भावः । तत्वावयोधाभावेऽपि चेति तथा च तद्भावाभावयो वादनवबोधव्यभिचारित्वमशक्यत्वस्येति न तत्रानवबोधोऽन्तर्भावयितुं शक्य इत्यर्थः । तदभावोऽवबोधाभावः । आद्यन्तोक्तिद्वयस्येति कारिकाक्रमापेक्षया, को ह्यर्थविशेष इति, अर्यत इत्यर्थः इति व्युत्पच्या को हि प्रकारभेद इत्यर्थः । अवाच्यत्वं नैरात्म्यमिति अवाच्यत्वं नैरात्म्यं चेति पक्षयोरित्यर्थः । 'अर्थरूपमिति' तथा च भावाभावविषयत्वाद्विशेष इत्यर्थः । समानसमयत्वप्रसङ्गादिति क्षणिकत्वविरोधे हेतुत्वेनान्वेति, प्रत्यक्षकालवृत्तेविषयस्य तद्धेतुत्वरक्षायै प्राकालवृत्तित्वस्याप्यभ्युपगमे क्षणिकत्वविरोधस्य स्पष्टत्वात् । द्वितीयक्षणवृत्तिध्वंसप्रतियोगित्वस्यैव क्षणिकलक्षणत्वादितरस्याविनिगम्यत्वात् ॥ ५० ॥ हिनस्त्यनभिसन्धातृ न हिनस्त्यभिसंधिमत् । बध्यते तवयापेतं चित्तं बद्धं न मुच्यते ॥५१॥ ____ हिंसाभिसंधिमञ्चित्तं न हिनस्त्येव प्राणिनं, तस्य निरन्वयनाशात् संतानस्य वासनायाश्चासंभवात् । अनभिसन्धिमदेवोत्तरं चित्तं हिनस्ति । तत एव हिंसाभिसन्धिहिंसाचित्तद्वयादपेतं चित्तं बध्यते । यञ्च बद्धं तन्न मुच्यते, ततोऽन्यस्य मुक्तेः। इति कोन्यः प्रकाशयेन्निरन्वयात् तस्यैवम् ? संतानादेरयोगादिति-कर्तव्यतासु चिकीर्षोविनाशात् कर्तुरचिकीर्षुत्वात् तदुभयविनिर्मुक्तस्य बन्धात्तदविनिर्मुक्तेश्च यमनियमादेरविधेयत्वं कुर्वतो वा यत्किचनकारित्वं प्रत्येतव्यम् । न चैवमनेकान्तवादिनः, प्रतिक्षणं परिणामान्यत्वेऽपि जीवद्रव्यस्यान्व ॥२७०॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy