SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir परिच्छेदः तृतीयः॥ अष्टसहस्री विवरणम् ॥ ॥२६९॥ वन्ध्या च सराभोऽनुपमो महान् ॥१॥” इति श्लोकः सर्तव्यः । 'परानिति' परान् प्रतीतिप्रतिपादयत इवेति योजना कर्त्तव्या । ननु स्वरूपं विशेषरूपमेव पररूपं तु सामान्यरूपं ततश्च सामान्यरूपेणाभिलाप्यत्वे सत्यपि विशेषरूपेणावक्तव्यत्वसद्भावात् कथं वाचः स्खलनं गम्यतेत्याशङ्कायामाह-विशेषरूपवदिति ॥ ४९ ॥ अशक्यत्वादवाच्यं किमभावात्किमबोधतः।आद्यन्तोक्तिद्वयं न स्यात् किं व्याजेनोच्यतां स्फुटम्॥५०॥ अर्थस्यानभिलाप्यत्वमभावाद्वक्तरशक्तेरनवबोधाद्वा ? प्रकारान्तरासंभवात् । ननु च मौनव्रतात्प्रयोजनाभावाद्भयाल्लज्जादेर्वाऽनभिलाप्यत्वसिद्धेः कथं प्रकारान्तरासंभव इति चेत्, न, मौनव्रतादीनामशक्यत्वेऽन्तर्भावात् तेषां करणव्यापाराशक्तिनिमित्तत्वाञ्च । न चैवमनवबोधस्ततः प्रकारान्तरं न स्यात् , तत्त्वावबोधे सति करणव्यापाराशक्तावप्यन्तर्जल्पसंभवात् । तत्त्वावबोधाभावेपि च करणव्यापारशक्तिसद्भावात् । अनवबोधाशक्यत्वयोरिह बुद्धिकरणपाटवापेक्षत्वात् प्रकारान्तरत्वमेव । न च सर्वत्र तदभावो युक्तः, कस्यचित्कचिदवबोधसद्भावात् सुगतस्य प्रज्ञापारमितत्वात् क्षमामैत्रीध्यानदानवीर्यशीलप्रज्ञाकरुणोपायप्रमोदलक्षणदशबलत्वोपगमाञ्च कस्यचिदेव करणापाटवात् । तदनेनाशक्यत्वानवबोधवचनलक्षणस्याद्यन्तोक्तिद्वयस्यासंभवो व्याख्यातः । सामर्थ्यादर्थस्याभावादेवावाच्यत्वमिति किं व्याजेनावक्तव्यं तत्त्वमिति वचनरूपेण ? स्फुटमभिधीयतां सर्वथार्थाभाव इति, तथा वचने वञ्चकत्वायोगादन्यथानाप्तत्वप्रसक्तेः । ततो नैरात्म्यान्न विशेष्येत, मध्यमपक्षावलम्बनात् । को ह्यत्र विशेषोऽर्थस्याभावावाच्यत्वं नैरात्म्यमिति च? अशक्यसमयत्वादनभिलाप्यमर्थरूपमिति चेत्, न, कथंचिच्छक्यसंकेतत्वाद् । दृश्यविकल्प्यस्वभावत्वात्परमार्थस्य प्रतिभासभेदेऽपीत्युक्तम् । न हि दृश्यस्वभाव एव परमार्थो न पुनर्विकल्प्यस्वभावः सामान्यं, विशेषवत्सामान्यस्यापि वस्तुरूपत्वसाधनादन्यथा ||२६ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy