SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir च द्वित्वे संख्यात्वेनैकत्वाभेदः सिद्ध एवेति भावः ॥४८॥ __सर्वान्ताश्चेदवक्तव्यास्तषां किं वचनं पुनः। संवृतिश्चेन्मृषैवैषा परमार्थविपर्ययात् ॥४९॥ परेषां सर्वे धर्मा यद्यवक्तव्या एव तदा तेषां किं पुनर्वचनं धर्मदेशनारूपं परार्थानुमानलक्षणं साधनदूषणवचनं वा ? न किंचित् स्यादिति मौनमेव शरणम् । यदि पुनः संवृतिरूपं वचनमुपगम्यते तदापि मृषैव संवृतिरेषाभ्युपगन्तव्या परमार्थविपर्ययरूपत्वात्तस्याः। इति तत्त्वतः किं वचनं स्यात् ? पुनरष्यवक्तव्यवादिनं पर्युनुयुज्महे, सर्वे धर्मा यदि वाग्गोचरातीताः कथमिमेऽभिलप्यन्ते ? इति, स्ववचनविरोधानुषङ्गात् सर्वदा मौनत्रतिकोऽहमिति प्रतिपादयत इव परान् । संवृत्या चेत्सर्वे धर्मा इत्यवक्तव्या इति चाभिलप्यन्ते भवद्भिर्न, विकल्पानुपपत्तेः । संवृत्येति हि स्वरूपेण परूपेणोभयरूपेण वा तत्त्वेन मृषात्वेनेति वा विकल्पेषु नोपपद्यते । तत्र संवृत्या वक्तव्या इति स्वरूपेण चेत्कथमनभिलाप्याः ? स्वरूपेणाभिलाप्यानामनभिलाप्यत्व विरोधात् । पररूपेण चेत्तत्तेषां स्वरूपं स्यायेनाभिलाष्याः। केवलं वाचः स्खलनं गम्येत गोत्रस्खलनवत् स्वरूपेणेति वक्तव्ये पररूपेणेति वचनात् , विशेषरूपवत् सामान्यरूपस्यापि वक्तव्यतयाङ्गीक्रियमागस्य स्वरूपत्वात् , तस्यास्वरूपत्वे विशेषरूपस्याप्यस्वरूपत्वापत्तेः स्वयं निःस्वरूपत्वप्रसङ्गात् । उभयपक्षेप्युभयदोषानुपङ्गः । तत्त्वेन चेत्कथमवक्तव्याः ? केवलं वचः-स्खलनं गम्येत, तत्त्वेन वक्तव्या इति वचने प्रस्तुते संवृत्या वक्तव्या इति वचनप्रवृत्तेः । मृषात्वेन चेत्कथमुक्ताः ? सर्वथा मृषोक्तानामनुक्तसमत्वात् । तदलमप्रतिष्ठितमिथ्याविकल्पौधैः, सर्वथानभिलाप्यानां सर्वधर्माणामनभिलाप्या इति वचनेनाप्यभिलाप्यत्वासंभवात्तथा परप्रत्यायनायोगात् ॥४९॥ किंचेदं तत्त्वम् सर्वदा मौनव्रतिकोऽहमितीति, इत्येतत्प्रकारं, तेन “ यावज्जीवमहं मौनी ब्रह्मचारी तु मत्पिता ॥ मम माता च For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy