________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अष्टसहस्त्री
परिच्छेदस्तृतीयः॥
विवरणम्॥
॥२६२॥
लादिजनने च तस्याव्यापारात् , केवलं मुद्गरादिसहकृता समनन्तरसामग्री सजातीयकार्य न जनयतीत्यर्थात् कपालादे- रुत्पत्तिरिति भावः। साधयेदिति तच्चानिष्टं सौगतस्येति तं प्रत्यनिष्टापादनमेतजैनेन क्रियत इति बोध्यम् । 'कुण्डबदरवदिति यद्यपि कुण्डबदरयोराश्रयाश्रयिभावे कार्यकारणभावस्य नियामकत्वमप्रातीतिकमनभ्युपगमदोषदुष्टं च, तथापि स्वतोऽवयवावयविभावेन कार्यकारणतया निष्पन्नयोरेव तयोर्यथाश्रयाश्रयिभावस्तथात्र नास्तीत्ययुक्तोऽयं पक्ष इति केचिद् व्याचक्षते, वयं तु जगदवगाहनाहेतुगगनदृष्टान्तेन बदराधारतापर्याये कुण्डस्य हेतुत्वात् कार्यकारणभावाभावे स्थितितद्वतोराश्रयाश्रयिभावानुपपत्तिमुपपादयामः । बदरप्रतियोगिकसंयोगरूपबदराधारतायां कुण्डस्य ताद्रूप्येण हेतुत्वमित्यपरे । 'तादृश' आदौ स्थितिमतः । अनुमीयत इत्याद्यशब्दस्य कार्यत्वेन सोपादानत्ववदन्त्यशब्दस्य कारणत्वेन सोपादेयत्वस्यानुमानाविशेपादिति भावः । 'अवस्तुत्वानुषङ्गभयादिति' शब्दविद्युदादेरुत्तरकार्यानभ्युपगमे हि स्यादेव कार्याविच्छेदरूपसत्त्वाभावादवस्तुत्वापत्तेर्भयमिति भावनीयम् । ननु वस्तुत्वमर्थक्रियाकारित्वमात्रनियतमित्यन्त्यशब्दादेयोगिज्ञानजनकत्वेनैव तत्वोपपत्तेनैकद्रव्यकार्याविच्छेदसिद्धिरित्याशङ्कायामाह-'शब्दादेरित्यादिना,"ततो रसादिति' परस्परोपादेयपरस्परसहकारित्वादेव हि तदनुमानं व्यवस्थितं नियतोपादानोपादेयभावविच्छेदे तु व्यभिचारशङ्कया तन्न स्यादित्यर्थः । कथश्चन स्थितिमतइति' कथंचनेत्यनेनैकद्रव्यतयैव कार्याविच्छेदरूपस्थित्यभ्यनुज्ञानादन्त्यशब्दाद्युत्तरं न सदृशकार्यानुपलम्भानुपपत्तिः, संविदद्वैताभ्युपगमादिति मध्यमक्षणसंविन्मात्रस्वीकारादन्त्यक्षणानां तत्कालाज्ञातानां तत्कालसच्चे मानाभावादित्यर्थः।। 'प्रभवादे'कार्यारम्भादेः, 'तत् स्वभावविशेषावक्लप्ताविति' एकसन्ततिपतितकार्यकारणक्षणेषु तदीयत्वनियामकस्व
॥२६२॥
For Private And Personal Use Only