________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
%A4%
94%ACRECCASCARE
नुपयुक्तस्य, 'क्षणिकस्येति' वक्ष्यमाणरीत्या क्षणिकस्याप्यनेककार्यकारित्वात् कथमेकत्वमिति पर्यनुयोगः सम इत्यर्थः, क्षणिकस्येत्यत्र प्रतिक्षणमित्यादि प्राक्तनं सर्व योजनीयम् । यत्त्वत्र स्वाभावकाले कार्यजननाविशेषादिति कस्यचिद्धत्वभिधानं तत् स हीत्यादिसमर्थनग्रन्थसन्दर्भविरुद्धम् । 'नानार्थवत्' सम्प्रतिपननानाप्रयोजनवत् , 'अतव्यावृत्तिभ्यो'शक्तिव्यावृत्तिभ्यः, 'कल्पिताभ्यो' वासनाविशेषोत्थविकल्पज्ञानविषयीकृताभ्यः । 'विपरीतारोपव्यवच्छेदे'ऽक्षणिकत्वभ्रान्तिव्यवच्छेदे, 'समारोपव्यवच्छेदे नानाकार्यजनकशक्त्यभावभ्रमव्यवच्छेदे, नर्तक्यादिक्षणे कार्यभेदेऽपि कारणभेदाभावमाशंक्याह-भाष्यकृत् 'युगपदित्यादि,' तत्र दर्शनभेदाभावेष्टापत्तावनुभवबाधमाह वृत्तिकृत्-न चैवमित्यादिना, क्षणिके नानाकार्यजनकस्वभावभेदानभ्युपगमे तत्त्वसाधकमूलयुक्तिवाधः स्यादित्याह भाष्यकृत्-सकृदित्यादिना, क्षणक्षयवदिति धर्मनिर्देशस्य धर्मिपरत्वात् क्षणक्षयवति स्वलक्षण इवेत्यर्थः । तथा च व्याचष्टे वृत्तिकृत् यथैव हीत्यादि, ऋमिकसहकारिभिरेव कार्यस्य | कृतत्वात् स्थिरमकिश्चित्करमित्याशङ्कायामाह भाष्यकृत्-'नहीत्यादि' 'तबुद्धिपूर्वकत्वाभावात्,' अन्यतः कार्यसम्भवेऽहं न कुर्यामिति स्थिरसम्बन्धिबुद्धिपूर्वकत्वाभावात् कार्यस्येत्यर्थः, तथा च सहकारिवत् स्थिरस्य हेतोर्नियतपूर्ववनित्वादेव कारणत्वमवर्जनीयम् तदभिमतसामग्रीप्रविष्टहेत्वन्तरवदित्यर्थः । तदाह-क्षणिकेति' 'न तत्काले दर्शनमिति उपादेयस्योपादाननाशत्वान्नाशस्य च दर्शनायोग्यरूपत्वान्नश् अदर्शन इति धात्वनुसारादिन्यर्थः। तदव्यतिरिक्तति' तच्छब्देन परिणामान्तरस्य कपालादेर्हेतुः समनन्तरो घटादिलक्षणो गृह्यते, ततो व्यतिरिक्तो हेतुर्मुद्गरादिस्तदनपेक्षत्वव्यवस्थितरित्यर्थः। सुगतमते हि घटादे शकाले मुद्गरादिना न किश्चिजन्यते, तुच्छस्य ध्वंसस्य जनयितुमशक्यत्वात् , कपा
For Private And Personal Use Only