SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भावविशेषकल्पन इत्यर्थः। कार्यकारणभावमात्रस्यैकसन्ताननियामकत्वेऽतिप्रसङ्गमुपदर्शयति, 'अव्यभिचारिण इत्यनेन,' नन्वेकसन्तानेऽपि क्षणानां भिन्नत्वात् कथं तादात्म्यमुपपत्स्यत इत्यत आह ' भेदेत्यादि ' भेदतादात्म्ययोर्विरोधस्यापि हि सर्वथाऽपरिहार्यत्वात् कथञ्चित्पक्षे तु द्रव्यपर्यायविधया परिहार्यत्वादेवेति चूर्णकसहितभाष्यप्रतीकार्थः । उक्तप्रकारमेव समर्थयति वृत्तिकृत्, 'संविदीत्यादिना, 'तदनादीति' उत्तरचित्तोत्पत्तिकारणीभूतप्राक्तनचित्तक्षणात्मक ) रमवासनावशात्तस्य प्रत्यभिज्ञानादेर्नियम इत्यर्थः । ' तद्वत् ' नानासन्तानवत् 'पक्षान्तरासम्भवाच्चेति' असति कारण इति पक्षान्तरस्य चासम्भवादित्यर्थः । तेन तद् द्वितीयोत्तराभावान्यूनत्वं यदि पुनरसत्येव कारण इत्यादिना वृत्तौ तु भाष्योक्तपक्षान्तरस्यैव स्फुटीकारान्न पौनरुक्त्यम् ॥ ४१ ॥ यद्यसत् सर्वथा कार्यं तन्मा जनि खपुष्पवत् । मोपादाननियमो भून्माश्वासः कार्यजन्मनि ॥ ४२ ॥ पर्यायाकारेणेव द्रव्याकारेणापि सर्वथा यद्यसत्कार्यं तदा तन्मा जनिष्ट, खपुष्पमिव । तथा हि यत् सर्वथाप्यसत्तन्न जायमानं दृष्टं, यथा खपुष्पम् । तथा च परस्य कार्यम् । इति व्यापकविरुद्धोपलब्धिः । कार्यत्वं हि कथंचित्सस्वेन व्याप्तम् । तद्विरुद्धं सर्वथाप्यसत्त्वम् । प्रतीतं हि लोके कथंचित्सतः कार्यत्वमुपादानस्योत्तरीभवनात् । सदेव कथमसत् स्याद्विरोधादिति न चोद्यं, (अ) सकृदपि विरुद्धधर्माध्यासनिराकृतेश्चित्रवेदनवदित्युक्तप्रायम् । तथा चान्वयव्यतिरेकप्रतीतेर्भावस्वभावनिबन्धनायाः किं फलमपलापेन ? तदन्यतरनिराकृतावुभयनिराकृतिरभेदात् । कथमन्वयव्यतिरेकयोरभेद इति चेत्, कारणस्य भावे भावस्यैव तदभावेऽभावरूपत्वात् । न हि कारणस्याभावेऽभाव एव भावे भावो न प्रतीयते यतस्तदभेदो न स्यात् । कथं भावस्वभावनिबन्धनान्वयव्यतिरेकप्रतीतिस्तस्या भावाभावस्वभावनिबन्ध For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy