________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
SEASESCE%%ACKASGANA
मपि (१९२-२-९) इति द्रव्यत्वमुद्देश्यतावच्छेदकमाह-द्रव्यत्वावच्छेदेन सन्चासत्त्वादिसप्तभङ्गीसाधने किं स्वद्रव्यं किंवा परम् , तदवच्छिन्नभेदाप्रसिद्ध्या परत्वस्य तदभावे स्वत्वस्य दुर्वचत्वान्न किश्चिदित्यर्थः, तत्रापि शुद्धं द्रव्यं स्वं सत्त्वावच्छेदकम् , अशुद्धं च परमसत्त्वावच्छेदकम् , अशुद्धशुद्धत्वे च भेदाभेदप्रधानव्यवहारनिश्चयनयसाक्षिकावखण्डोपाधिविशेषौ, प्रतिभासविशेषादपि तत्सिद्धेस्तत्तदंतादौ दर्शनादिति नानुपपत्तिरित्यभिप्रायवानाह-'न, तेषामपीत्यादि' (९)। तथापि शुद्धद्रव्यत्वावच्छिन्नधर्मिताकसप्तभङ्गीस्थले का गतिरित्याशङ्कते शुद्धद्रव्यस्येत्यादि (११) ।। तत्रापि स्वद्रव्यपरद्रव्यशब्दाभ्यां व्यापकत्वाव्यापकत्वोपलक्षणात्तदवच्छिन्नास्तित्वनास्तित्वादिघटितायाः सप्तभङ्गया नानुपपत्तिरित्याह-'सकलेत्यादि' (११)। उक्तप्रकारं शुद्धक्षेत्रकालयोरतिदिशति-'एतेनेति' (१२) । शुद्धभावस्तु शुद्धद्रव्येण गतार्थ एव, स्वरूपादिचतुष्टयादित्यत्र " ल्यब्लोपे पञ्चमी" इत्यभिप्रायमाविष्करोति-स्वरूपादीत्यादि' (१३) ॥ व्याख्यातमिति (१४) ॥ विपर्यासादित्यत्रापि विपर्यासमपेक्ष्येत्येवार्थ इति भावः । आपेक्षिकस्य तुच्छत्वे बाधकमाह-'सर्वस्येत्यादि' (१९३-१-४) । तथा च भावानां परस्परमुत्कर्षापकर्षाभ्यामन्ततः षड्गुणहानिवृद्धिशालित्वेन भावाभावयोश्च परस्परवैलक्षण्येनापेक्षिकतया तुच्छत्वात्तत्त्वोपप्लवे मध्यमसंविन्मात्रे विश्रान्तिः स्यात् , सा च बहुधा दूषितेति व्यवहारतः केचिदर्था निरपेक्षाः केचिच्च सापेक्षा अनुभवबलेनैव श्रद्धेयाः, तथैव पदार्थवैचित्र्यस्य व्यवस्थितत्वात , तदबदाम भाषारहस्यप्रकरणे “ ते' होंति परावेक्खा बंजयमुहदंसिणोत्ति ण य तुच्छा। दिट्ठमिणं वेचित्तं सरावकप्पूरगंधाणं ॥१॥” इति, तत्त्वतस्तु सामान्यदृष्ट्या सर्वे निरपेक्षा विशेषदृष्ट्या च सर्वे सापेक्षा
१ ते भवन्ति परापेक्षा व्यञ्जकमुखदर्शिन इति न च तुच्छाः । दृष्टमिदं वैचित्र्यं शराबकर्पूरगन्धयोः ॥ १॥
NAGACASSACH
For Private And Personal Use Only