SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ ॥१९४॥ धर्माणां तु स्वपर्याप्तिमद्रव्यापेक्षेति । अत एव तत्प्रमात्वमपि स्वपर्याप्तिमद्विशेष्यकत्वघटितमिति नैको द्वावित्यादेः प्रमात्वम् , परिच्छेद तादृशबुद्धिकाले धर्मद्वयावच्छेदेन द्वित्वबुद्धेः प्रमात्वं तु स्याद्वादापेक्षया लोकोत्तरमिति न दोषः, लौकिकप्रमाप्रकारस्यैव प्राग प्रथमः॥ लक्षितत्वादिति दिग् । स्वरूपादौ स्वरूपाद्यन्तराभावात्कथं सत्त्वं, तद्भावे वा कथं नानवस्थेति नैयायिकादिः शङ्कते 'नन्वेवमित्यादिना' (१९२-१-११) ॥ स्वरूपादीनां धर्मिसत्त्वादिनियामकानां स्वसत्त्वादिनियामकत्वस्य धर्मिग्राहकमानेन स्वत एव सिद्धत्वान्नयविशेषेण स्वरूपान्तरादिग्रहस्यापि जिज्ञासाधीनत्वाद् यत्रैव न सा तत्रैव विश्रान्ते नवस्थेति समाधत्तेसोऽपीत्यादिना (१३) ॥ वस्तुनो हीति' (१४) तथा च स्वरूपादिघटितमूर्तेरेव सत्त्वादेः प्रतीतेर्भेदनयेऽपि च यथा | जिज्ञासं व्यवस्थानान्नानवस्थेति फलितम् , एतेन सत्त्वं नावच्छिन्नम् , अनवच्छिन्नस्यैव सत्तामहासामान्यस्य सर्वैः प्रतीयमानत्वात् , तत्र स्वरूपादेवच्छेदकस्य कल्पने च तस्यापि सप्तभङ्गीनयेनानवस्थिततद्व्यवस्थार्थमप्यवच्छेदकान्तरमपेक्षणीयम् तत्रा-| प्यन्यदित्येवं ज्ञप्तिप्रतिपन्थिन्यनवस्था दुरुद्धरेति न कथमपि सप्तभङ्गीक्रमेण शाबोधोपपत्तिरिति पशुपालप्रलपितमपास्तम् । अनर्पितदृष्ट्याऽनवच्छिन्नेऽप्यर्पितदृष्ट्याऽवच्छिन्नत्वप्रतीतेः सार्वजनीनत्वात् , केनचिन्नयन स्वरूपादेः स्वरूपतोऽवच्छेदकत्वं निर्णायैवास्तित्वादिप्रवृत्तेरनवस्थाया अभावात् , अन्यथा शाखावच्छेदेन कपिसंयोगप्रत्ययोऽपि दुरुपपादः स्यात् , सम्पूर्णा | परमाणवाद्यवच्छिन्ना वा शाखाऽनवच्छेदिकेति ग्रहे शाखात्वावच्छेदेनावच्छेदकत्वग्रहासम्भवात् , प्रतिनियतावयवावच्छिन्नशा खात्वेन तदवच्छेकत्वस्य च दुर्ग्रहत्वादित्यादिकमुपपादितं गोपालमतप्रमाथिन्यामनेकान्तव्यवस्थायामस्माभिरिति तत एवावधार्यम् । स्वद्रव्यपरद्रव्यादेः सर्वत्र सदसवव्यवस्थापकत्वनियमभङ्गमाशङ्कते-ननु चेत्यादिना (१९२-२-८)॥षण्णा-P॥१९४॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy