________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्षेत्रापेक्षवा स्वप्रदेशनियतं निश्चयनयतः, स्वशरीरव्यापिनं व्यवहारनयतः, कालापेक्षया त्रिकालगोचरम् । कथं पुनरीदृशमात्मानं परं वा साक्षात्करोति कथं वा परोक्षयति द्रव्याद्यपेक्षयेति चेत्, उच्यते । साक्षात्करणयोग्यद्रव्याद्यात्मना मुख्यतो व्यवहारतो वा विशदज्ञानेन साक्षात्करोति, परोक्षज्ञानयोग्यद्रव्याद्यात्मना अनुमानादिप्रमाणेनाविशदेन परोक्षयति, 'प्रत्यक्ष विशदं ज्ञानं मुख्यसंव्यवहारतः। परोक्षं शेषविज्ञानं प्रमाणे इति संग्रहः ॥११॥ इति संक्षेपतः प्रत्यक्षपरोक्षयोरेव वस्तुपरिच्छित्तौ व्यापारवचनात् । कथं तर्हि केशादिविवेकव्यामुग्धबुद्धिः पुरुषो दृष्टान्तः समः स्यादिति चेत्, केशमशकमक्षिकादिप्रतिभासात्मना सत्त्वपरिणाम साक्षात्कुर्वन् विवेकाद्यात्मना च कुतश्चिद्नुमिन्वन्नुपशृण्वन्वा परोक्षयन , अविवेकादिव्यामोहप्रतिभासात्मना चासत्त्वपरिणामं कथञ्चित्तु साक्षात्कुर्वन् परोक्षश्च सम एव स दृष्टान्तः, तथा वैषम्याभावात् । ननु च तद्वस्तु चैतन्यमेवैकमक्रमादिरूपं बिभर्ति, न पुनः सुखादिभेदमनेकाकार क्रमाद्यात्मकॅ, सजातीयाचेतनवस्तुनो विजातीयाचाचेतनवस्तुनो विविक्तस्वरूपम् , तमेव वा बिभर्ति तादृशं, न पुनश्चैतन्यं तत्त्वतः, इत्वभ्युपगमयोरेकतरानवस्थानेऽन्यतरस्याप्यनवस्थानादुभयानवस्थितिप्रसङ्गात् , कचिदभ्युपगते रूपे कथंचित्प्रत्यक्षादिप्रकारेण स्वाभ्युपगमादिप्रकारेण च नियमासंभवात् । सूक्तम् “ईदृशं न चेत् , न व्यवतिष्ठते” इति । ॥ १५ ॥ ___ अथ स्वयमेवं प्रतीयन्नपीति ( १९२-१-४ ) सत्त्वासचोभयधर्मशबलैकवस्त्विति शेषः । अत्र स्वरूपं स्वभावः पररूपं परभाव इति, शिष्टमादिपदग्राह्य द्रव्यादित्रयमेव स्थितमिति तदाश्रित्याह 'स्वद्रव्यादिवेत्यादि'(६)॥ तदवस्थत्वादिति (८) संयोगस्य स्वद्रव्यापेक्षास्तित्वाभावेऽयं संयोगोऽनयोरेव द्रव्ययो न्ययोरिति प्रतिनियमो ब्याहन्यत एवेति दोषस्य प्रागुक्तानतिशावित्वादित्यर्थः, इयॉस्तु विशेषोऽव्यासज्यवृत्तिधर्माणामस्तित्वे स्वसमवायिद्रव्यमात्रापेक्षा, व्यासज्यवृत्ति
For Private And Personal Use Only