________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।। ॥१९३॥
www.kobatirth.org
षात्कार्योत्पत्तावपि व्यपदेशानुपपत्तेस्तादृशां स्वरूपैकत्वमस्त्येव । न च सव्येतरविषाणवत्सर्वथा समानकाळतोपादानोपादेययोर्यतस्तद्भावो विरुद्ध्येत, द्रव्यसामान्यापेक्षया तयोरेकत्वमिति मननात् । विशेषापेक्षया तु नास्त्येव तादृशामेकत्वम् । न हि पौरस्त्यः पाश्चात्यः स्वभावः, पाश्चात्यो वा पौरस्त्यः । नन्वेवमेकत्वं मा भूत् पूर्वापरपरिणामानाम्, क्रमस्यैवावस्थानादक्रमस्य तद्विरुद्धत्वादिति न मन्तव्यम्, यस्मान्निरपेक्षस्तत्र क्रमोपि प्रतिभासविशेषवशात्प्रकल्पयेत तदेकत्वादक्रमः किन्न स्यात् ? प्रतिभासैकत्वेपि तदक्रमानुपगमे प्रतिभासविशेषवशात्क्रमः कथमभ्युपगमार्हः स्यात् ? सर्वस्य यथाप्रतिभासं वस्तुनः प्रतिष्ठानात्, प्रतिभासमानयोः क्रमाक्रमयोर्विरोधानबतरणाद्विरोधस्य सहा (स्यानुपलम्भलक्षणत्वात् । न च स्वरूपादिना वस्तुनः सत्त्वे तदैव पररूपादिभिरसत्त्वस्यानुपलम्भोस्ति, येन सहानवस्थानलक्षणो विरोधः शीतोष्णस्पर्शविशेषवत्स्यात् परस्परपरिहारस्थितिलक्षणस्तु विरोधः सहैकत्राम्रफलादौ रूपरसयोरिव संभवतोरेव सदसत्वयोः स्यात्, न पुनरसंभवतोः, संभवदसंभवतोर्वा । एतेन वध्यघातकभावोपि विरोधः फणिनकुलयोरिव बलवदबलवतोः प्रतीतः सत्त्वासत्त्वयोरशङ्कनीयः कथितः, तयोः समानबलत्वादित्येतदग्रे प्रपञ्चयिष्यते । तदेकानेकाकारमक्रमक्रमात्मकमन्वयव्यतिरेकरूपं सामान्यविशेषात्मकं सदसत्परिणामं स्थित्युत्पत्तिविनाशात्मकं स्वप्रदेशनियतं स्वशरीरव्यापिनं त्रिकालगोचरमात्मानं परं वा कथञ्चित्साक्षात्करोति, परोक्षयति वा, केशादिविवेकव्या मुग्धबुद्धिवत् तादृशैकचैतन्यं सुखादिभेदं वस्तु स्वतोऽन्यतः सजातीयविजातीयाद्विविक्तलक्षणं विभर्ति । अन्यथानवस्थानात् कचित्कथंचिदनियमः स्यात् । सर्वो हि लौकिकः परीक्षकश्च तावदेकमक्रमात्मकमन्वयरूपं सामान्यात्मकं सत्परिणामं स्थित्यात्मकमात्मानं परं वा बहिरर्थसंतानान्तराख्यं द्रव्यापेक्षया साक्षात्करोति, लिङ्गशब्दादिना परोक्षयति वा, भावापेक्षया पुनरनेकाकारं क्रमात्मकं व्यतिरेकरूपं विशेषात्मकमसत्परिणाममुत्पत्तिविनाशात्मकं,
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥१९३॥