SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ | परिच्छेदा प्रथमः॥ ॥१९५॥ RSSROSATSACX इति व्यापकोऽनेकान्त एव विजयते, व्यञ्जनपर्यायैः सदृशानामप्यर्थपर्यायसदृश्यस्य शास्त्रसिद्धत्वात् , तदाह-प्रवचनोपनिपद्धेदी महावादी सिद्धसेनः-"परपज्जवेहिं असरिसगमेहि णियमेण णिच्चमवि णत्थि। सरिसेहिं पि वंजणओ अस्थि ण पुणत्थंपजाए॥१॥" इति, कथञ्चिदर्पितयोः (१९३-१-९) स्वपररूपाभ्यां विवक्षितयोः, तथाप्रतिपत्तिसद्भावाच (९) तादृशयोस्तयोरेकाधिकरणत्वधीसद्भावाच्च, न च दृष्टेऽनुपपन्नं नाम, भिन्नस्वभावयोरप्येकत्वं दृष्टान्तेन प्रसिद्धेनोपदर्शयति-शान्देतरेत्यादि (१०)स्पष्टास्पष्टविषयतया भिन्नस्वभावत्वेन सिद्धयोः प्रत्यक्षशाब्दबोधयोयथैकविषयत्वमेकद्रव्याश्रयत्वं चाविरुद्धं तथा सत्चासत्त्वयोरेकाश्रयत्वमपीति तात्पर्यार्थः । न चाध्यक्षशाब्दविषयत्वविरोधः काळभेदेन परिहरणीयः, एककालेऽपि चित्रसंवित्तौ नीलतदितरविषयत्वविरोधपरिहारस्य प्रतीत्येकशरणत्वादिति प्रतिपत्तव्यम् । भावाभावयोर्विरोधस्यापि तत्तत्प्रतियोगिगर्भत्वेन विशिष्य विश्रान्तत्वाजात्यन्तरे वस्तुनि तदेकदेशयोः सत्त्वासत्त्वयोरविरोधकल्पन एव लाघवमिति पुनरस्मदीयो मनीषोन्मेपो | नयरहस्यादौ। विच्छेदानुपलम्भेऽपीति (१९३-१३) अत्र सादृश्यदोषादिति हेतुरुह्यः। तदभावे (१४) आत्मद्रव्याभावे, तयोः (१४) शाब्देतरप्रत्यययोः, कथञ्चिदुपादानोपादेयानुगतधर्मेण, तेन दध्युत्पत्तिकाले दुग्धत्वरूपेण दुग्धानन्वयात्तयोर्नोपादानोपादेयभावानुपपत्तिः । यद्न्यं यद्रव्यध्वंसजन्यं तत्तदुपादानोपादेयमित्यपेक्षया च तत्तदुपादेयमिति व्याप्तिरेव लघीयसी । इयान् परं विशेषः, परेषां समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणताशालित्वमुपादानकारणत्वम् , अस्माकं च तादात्म्यसम्बन्धावच्छिन्नकार्यतानिरूपितस्वध्वंसत्वसम्बन्धावच्छिन्नकारणताशालित्वं तदिति।।व्यपदे १ परपर्यवैरसदृशगमैनियमेन नित्यमपि नास्ति । सदृशैरपि व्यञ्जनतः अस्ति न पुनरर्थपर्यायैः ॥ १ ॥ ॥१९५॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy