SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कारेऽनुप्रवेशे प्राह्माकार एव स्यान्न संविदाकारः । तथा च तस्याप्यभावः, संविदभावे ग्राह्याकारायोगात् । प्राह्माकारस्य वा संविधऽनुप्रवेशे संविदेव, न ग्राह्याकारः स्यात्, कस्यचित्संवेदनमात्रस्य विषयाकारविकलस्यानुपलब्धेः । ननु च ' नान्योनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥१॥ ' इति चेत्, न, एवमपि संवित्तेः स्वलक्षणप्रत्यक्षवृत्तावपि संवेद्याकारविवेकस्वभावान्तरानुपलब्धेः स्वभावव्यावृत्तिः स्वभावान्तरात्सिद्धेति कथं तलक्षणान्यापोहव्यतिक्रमः सौगतस्य शक्यः कर्तुम् ? चित्रैकज्ञानवादिनः पुनः शबलविषयनिर्भासेपि लोहितादीनां परस्परव्यावृत्तिरभ्युपगमनीया, अन्यथा चित्रप्रतिभासासंभवात्तदन्यतमवत्, तदालम्बनस्यापि नीलादेरभेदस्वभावत्वापत्तेर्नीलाद्यन्यतमवत् । प्रतिभासभेदाभावेपि नीलादेर्भेदव्यवस्थितौ न किञ्चिदभिन्नमेकं स्यात्, निरं शस्त्रलक्षणस्याप्यनेकत्वप्रसक्तेः । ततः पीतादिविषयस्वरूपभेदमन्विच्छता तत्प्रतिभासभेदोऽनेकविज्ञानवदेकचित्रज्ञाने प्येष्टव्यः । तदिष्टौ च स्वभावान्तरात्स्वभावव्यावृत्तिः पारमार्थिकी सिध्यतीति सिद्धस्तल्लक्षणोन्यापोहः । तथा चित्रज्ञानस्य स्वनिर्भासेभ्यो लोहितादिभ्यो विषयस्य च चित्रपटादेः स्वाकारेभ्यो नीलादिभ्यो व्यावृत्तिः सिद्धा । कुतः प्रमाणादिति चेत्, तद्वतस्तेभ्यो व्यावृत्तिः, एकानेकस्वभावत्वाद् घटरूपादिवदित्यनुमानात् । न हि लोहितादिनिर्भासा एव नीलाद्याकारा एव वानेकस्वभावा, न पुनरेकस्वभावं तद्वद्वेदनं बहिर्द्रव्यं चेति शक्यं वक्तुं यतोऽसिद्धो हेतुः स्यात्, तस्याप्यबाधितप्रतीतिसिद्धत्वात् । अन्यथा द्रव्यमेव स्यान्न रूपादयः । एतेन चित्रज्ञानमेव स्यान्न तल्लोहितादिनिर्भासा इत्युपदर्शितम् । शक्यं हि वक्तुं, स्वभावैकत्वेपि निर्भासबैलक्षण्यं करणसामग्रीभेदमनुविदध्याद्, दूरासन्नैकार्थोपनिबद्धनानादर्शननिर्भासवत् । यथैव हि चित्रपटादिद्रव्यमे कस्वभावमपि चक्षुरादिकरणसामग्रीभेदाद्रूपादि विलक्षणाकारं, तदनुविधानात् तथा चित्रज्ञानमपि नानान्तः करणवासनासामग्रीभेदाद्विलक्षणलोहितादिनिर्भासम् । तथानभ्युपगमे प्रतिपुरुषं विषयस्वभावभेदो For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy