________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री विवरणम् ॥ ॥१६२ ॥
परिच्छेदः प्रथमः॥
समवायिनः समवाय्यन्तरे समवायोऽन्यत्र समवायः, अत्यन्ताभावव्यतिक्रमः । तस्मिन् सर्वस्येष्टं तत्त्वं सर्वथा न व्यपदिश्येत, स्वेष्टात्मना व्यपदेशेऽनिष्टात्मनोपि व्यपदेशप्रसङ्गात् , तेनाव्यपदेशे स्वेष्टात्मनाप्यव्यपदेशापत्तेः स्वयमिष्टानिष्टात्मनो: कालत्रयेपि विशेषानुपगमात् । कः पुनरन्यापोहो नाम ? स्वभावान्तरात्स्वभावव्यावृत्तिरन्यापोहः । स्वभावान्तरादिति वचनान्न स्वस्वभावाव्यावृत्तिरन्यापोहः, तस्याः स्वापोहत्वप्रसङ्गात् । अथापि प्रागभावप्रध्वंसाभावयोरन्यापोहत्वप्रसक्तिरिति चेत्, न, कार्यद्रव्यात्पूर्वोत्तरपरिणामयोः स्वभावान्तरत्वेपि तस्य तद्यावृत्तेर्विशिष्टत्वात् । यदभावे हि नियमतः कार्यस्योत्पत्तिः स प्रागभावः, यद्भावे च कार्यस्य नियता विपत्तिः स प्रध्वंसः । न चेतरेतराभावस्याभावे भावे च कार्यस्योत्पत्तिर्विपत्तिर्वा, जलस्याभावेप्यनलस्यानुत्पत्तेः क्वचित्तद्भावे च तस्याऽविपत्तेः । कचिदन्धकारस्याभावे रूपज्ञानोत्पत्तेः स प्रागभावस्तस्य स्यादिति न मन्तव्यम् , नियमग्रहणात् केषाश्चिदन्धकारेपि रूपज्ञानोत्पत्तः । तत एव नान्धकारं रूपज्ञानस्य प्रध्वंसः, तद्भावे नियमतस्तद्विपत्त्यप्रतीतेः । ततः सूक्तमन्यापोहलक्षणं स्वभावान्तरात्स्वभावव्यावृत्तिरन्यापोह इति, तस्य कालत्रयापेक्षेऽत्यन्ताभावेप्यभावादतिव्याप्त्ययोगात् । न हि घटपटयोरितरेतराभावः कालत्रयापेक्षः, कदाचित्पटस्यापि घटत्वपरिणामसंभवात् , तथा परिणामकारणसाकल्ये तदविरोधात्, पुद्गलपरिणामानियमदर्शनात् ।। न चैवं चेतनाचेतनयोः कदाचित्तादात्म्यपरिणामः, तत्त्वविरोधात् । नन्वितरेतराभावस्य व्यतिक्रमे चार्वाकस्य पृथिवीतत्त्वं सकलजलाद्यात्मकमनुषग्यता, सांख्यस्य च महदादिपरिणामात्मकमशेषतस्तदस्तु । सौगतानां तु विज्ञानमात्रमुपयतां किं किमात्मकं स्यादिति कश्चित्सोपि न विपश्चित् । सौगतानामपि हि संविदो ग्राह्याकारात्कथाश्चिद्व्यावृत्तावनेकान्तसिद्धिरन्यथा संबन्धासिद्धिः, सर्वथा व्यावृत्तौ संविद्वाह्याकारयोरुपकार्योपकारकभावानभ्युपगमात्सबन्धान्तराभावात् । अव्यावृत्तावन्यतरस्वभावहानेर्न किञ्चित्स्यात् । संविदो ग्राह्या
१६२ ॥
For Private And Personal Use Only