SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अष्टसहस्री विवरणम्॥ ॥१३॥ परिच्छेद प्रथमः॥ वा सामग्रीसंबन्धभेदात् । कचिदेकत्रार्थे दूरस्थपुरुषस्यान्यो हि दूरे देशसामग्रीसंबन्धोन्यश्वासनदेशसामग्रीसंबन्धः । इति दूरासनानामेकत्र बस्तुन्युपनिबद्धनानादर्शनानां पुरुषाणां निर्भासभेदात्तद्विषयस्य वस्तुनोपि स्वभावभेदोस्तु, विशेषाभावात् , करणसामग्रीभेदवहुरादिदेशसामग्रीसंबन्धभेदस्यापि विषयस्वभावभेदमन्तरेणानुपपत्तेः । ततोन्तर्बहिश्न स्वभावभेदैकान्तसिडून कचिदेकत्वव्यवस्था । अन्यथा निभासभेदेपि कस्यचिदेकरूपतोपगमे न केवलं रूपादेरभेदः, किं तर्हि ? कस्यचित्क्रमशः संबन्ध्यन्तरोपनिपातोपि स्वभावं न भेदयेत् , ततः क्रमवन्त्यपि कार्याणि तत्स्वभावभेदं नानुमापयेयुः, क्रमशः सुखादिकार्यभेदस्य साधनधर्मस्य कचिदेकत्र समानसंबन्धोपनीतनिर्भासभेदेन व्यभिचारात् । न चैवं शक्यमभ्युपगन्तुम् । ततो यावन्ति संबन्भ्यन्तराणि तावन्तः प्रत्येकं भावस्वभावमेदाः परस्परव्यावृत्ताः सह क्रमेण च प्रतिपत्तव्याः। ननु च सर्वथा संबन्धासंभवाकावानां पारतन्यानुपपत्तेः " पारतन्त्र्यं हि संबन्धः सिद्धे का परतन्त्रता । तस्मात् सर्वस्य भावस्य संबन्धो मास्ति तस्वतः ॥११॥" इत्यादिवचनान कस्यचित्संबन्भ्यन्तराणि स्वभावभेदनिवन्धनानि सन्तीति चेत्, न, द्रव्यक्षेत्रकालभावप्रत्यासत्तिलक्षणस्य संबन्धस्य निराकर्तुमशक्तः । न हि कस्यचिकेनचित्साक्षात्परम्परया वा संबन्धो नास्तीति, निरुपास्यत्वप्रसङ्गात् । गुणगुणिनोः पर्यायतद्वतोच साक्षादविष्वग्भावाख्यसमवायासस्वे स्वतन्त्रस्य गुणस्य पर्यायस्य वाऽसवप्रसङ्गात् सकलगुणपर्यायरहितस्य द्रव्यस्याप्यसत्त्वापत्तिरिति तयोर्निरुपाख्यत्वम् । गुणानां पर्यायाणां च परस्परं स्वाश्रयैकद्रव्यसमवायसंबन्धाभावेप्यनेन निरुपाख्यत्वं प्रतिपादितम् । चनुरूपयोः परम्परया क्षेत्रप्रत्यासत्तेरसस्वे योग्यदेशेप्ययोग्यदेशवद्रूपे चधुझानं न जनयेत् । ततस्तद्ब्राहकानुमानासवादसत्त्वप्रसङ्गो, रूपस्यापि चेन्द्रियप्रत्यक्षासत्त्वप्रसक्तिः । इत्युभयोनिरुपास्यत्वम् । तथा कारणकार्यपरिणामयोः कालपत्यासत्तेरसत्त्वेऽनभिमतकालयोरिवाभिमतकालयोरपि कार्यकारणभावासत्त्वादु- * ॥१६३॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy